________________
१८६ ]
बृहद्वृत्ति-लघुन्याससंवलिते [पाद-४, सूत्र-५३-५५
न्या० स०-स्नो:-पृथग्योगात् सादेरिति नानुवर्त्तते, अन्यथा स्नुगमोरिति कुर्यात् ।। प्रास्नोष्टेति-कर्मकर्तरि प्रयोगः ।
क्रमः॥ ४. ४.५३॥ क्रमः परस्य स्ताद्यशित आदिरिड् भवति प्रात्मनेपदं चेन्न भवति कमिष्यति ।
निरक्रमीत , कमितासि, चिकमिषति, चिकमिषिता, चिकमिषितुम् , प्रक्रमितुम् , प्रक्रमितव्यम् । अनात्मन इत्येव ? प्र–स्यते, प्रक्रस्यमानः, उपक्रन्स्यते, उपक्रन्स्यमानः, प्रक्रन्ता, उपक्रन्ता, प्रक्रन्तासे, उपक्रन्तासे, प्रक्रन्सीष्ट, उपक्रन्सीष्ट, प्राक्रस्त, उपाक्रन्स्त, प्राकन्स्यत, उपाक्रन्स्यत, प्रचिक्रन्सते, उपचिक्रन्सते, प्रचिक्रन्सिष्यते, उपचिकन्सिष्यते । क्रमितेवाचरति कमित्रीयते इति पूर्ववदिड् भवति । कथं चिकन्सया कृत्रिमपत्रिपङ्क्तेरित्यत्रेडभावः । गतानुगतिक एष पाठः । जिघृक्षया कृत्रिमपत्रिपवतेरिति तु अविगान: पाठः ॥५३॥
न्या० स०-क्रमः आत्मनेपदं चेन्न भवतीति तद्विषयादऽविषयाद् वा । निरक्रमीदिति-व्यञ्जनादेः' ४-३-७८ इति न वृद्धिः, 'न शिवजागृ' ४-३-४९ इति निषेधात् ।
प्रक्रन्तेत्यादिषु-'प्रोपादारम्भे' ३-३-५१ इत्यात्मनेपदम् । गतानुगतिक इतिगतस्यानुगतं गतानुगतं तदत्रास्ति, 'अतोऽनेकस्वरात्' ७-२-६ इक: ।
तुः॥ ४. ४.५४ ॥
अनात्मनेपदविषयात् क्रम: परस्य तुस्तृचस्तृनश्च स्ताद्यशित प्रादिरिड् भवति । अनात्मन इति प्रकृतिविशेषणमत्रान्यथा व्यवच्छेद्याभावात् । क्रमिता, निष्क्रमिता । आत्मनेपदविषयश्च क्रमिः कर्मव्यतिहारवृत्त्यादिषु प्रोपव्याङपूर्वश्च आरम्भादिषु भवति । अनात्मन इत्येव ? व्यतिकन्ता, पराक्रन्ता, प्रक्रन्ता, उपकन्ता, विक्रन्ता, प्राकन्ता ।। ५४ ॥
न्या० स०-तुः-व्यवच्छेद्याभावादिति-प्रत्ययविशेषणे इत्यर्थः । क्रमितेति-'क्रमोऽनुपसर्गात्' ३-३-४७ इति विकल्पेनात्मनेपदविषयत्वात् क्रन्तव्यपि । आरम्भादिष्वितिआदिपदाद् विपूर्वस्य स्वार्थे आङ पूर्वस्य तु ज्योतिरुद्गमे ।
न वृद्भ्यः ॥ ४. ४. ५५ ॥
वृतूङ् स्यन्दौङ् वृधूङ् शृधूङ् कृपौङ् वृत् । एते पञ्च वृतादयः, वृत्करणं धुतादिवृतादिपरिसमाप्त्यर्थम्, एभ्यः परस्य स्ताद्यशित आदिरिड् न भवति । 'अनात्मेनाम्' अनात्मनेपदनिमित्तं चेद्वतादयो न भवन्ति । अनात्मनेपदनिमित्तं च वृतादयः स्यसनि श्वस्तन्यां च कृपिविकल्पेन भवन्ति ।
वृत्,-वय॑ति, अवय॑त् , विवृत्सति, विवृत्सिता, विवृत्सितुम्, विवृत्सितव्यम् , विवृत्सा, स्यन्द,-स्यन्त्स्यति, अस्यन्त्स्यत् , सिस्यन्त्सति, सिस्यन्त्सिता, सिस्यन्त्सितुम् , सिस्यन्त्सितव्यम् , वृधेर्वृतिवद्रूषाणि । शृध् , शय॑ति, अशय॑त्, शिशृत्सति, शिशृत्सितुम् ,