________________
पाद - ४, सूत्र - ५२ ]
श्री सिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[ १८५
"
मानः, अगंस्थत, समगंस्थत, संगंसोष्ट, संजिगंसते, संजीगंसमानः, संजिगं सिध्यते, संजिगं - सिष्यमाणः, श्रधिजिगांसते, अधिजिगांसमानः अधिजिगांस्यते, अधिजिगांसिष्यते, प्रधिजिगांसिष्यमाण:, इणिकोजिगांस्यते, संजिगांसते, अधिजिगांस्यते याता । कथं जिगमिषिते - वाचरति जिगमिषत्रीयते इति । आत्मनेपदस्य क्यङाश्रितत्वेन बहिरङ्गत्वात् केचित्तु आत्मनेपदविषयस्य गमेरात्मनेपदाभावे सति इटो विकल्पमिच्छन्ति । गम्लु, संजिगं सिता, संजिगमिषिता, संजिगंसितव्यम्, संजिगमिषितव्यम् । इङ् - अधिजिगांसिता, अधिजिगमिषिता, प्रधि जिगांसितव्यम् प्रधिजिगमिषितव्यम् श्रनात्मनेपदनिमित्तात्तु गर्मेनित्यमिटमिच्छन्ति । गमिष्यति, जिगमिषतीति, जिगमिषिता, जिगमिषितुम् अधिजिगमिषितुम्, अधिजिगमिषितव्यमित्यत्रापि गमेरनात्मनेपद विषयत्वान्नित्यमिड् भवति । तन्मतसंग्रहार्थमावृत्त्या सूत्रद्वयं व्याख्येयम् । गमोऽनात्मने गमोऽनात्मन इति । तत्र पूर्वस्यायमर्थः । गमेः सकारस्यादिरिड् वा भवति आत्मनेपदं चेन्न भवति, वेत्यनुवर्तनीयम् ।
I
द्वितीयसूत्रे तु अनात्मने इति प्रकृतिविशेषणं व्याख्येयम्, ततश्च गमेरात्मनेपदविषयात्सकारस्यादिनित्यमिड् भवति । इहानात्मने इति प्रकृतिविशेषणात्पूर्वसूत्रे आत्मने. पदविषयादिति सामर्थ्याल्लभ्यते, एवं च तन्मतसंग्रहः सिद्धो भवति । एके तु परस्मैपदविषयस्यैव गमेरिटमिच्छन्ति नात्मनेपदविषयस्य, तन्मतसंग्रहार्थं तु नात्मने इत्यसमस्तं व्याख्येयम् । श्रात्मन इति च प्रकृतिविशेषणम् । एवं च गमेरात्मनेपदविषयात् सकारस्यादिरिड् न भवति इति अयमर्थो भवति । तेन संजिगंसिता संजिगंसितव्यम् अधिजिगांसिता व्याकरणस्य अधिजिगांसितव्यम् ||५१||
,
न्या० स०- गमोडनात्मने - श्रात्मनेपदं चेन्न भवतीति - आत्मनेपदविषयस्याविषयस्य च आत्मनेपदाभावे भवतीति । गंस्यते ग्राम इत्यारभ्य संजिगमिष्यमाण इति यावत् गम्लृ इत्येतस्य रूपाणि तत्र निरुपसर्गस्य भावे कर्म्मणि च आत्मनेपदं सम्पूर्वस्य तु 'समो गमृच्छि' २-३-८४ इत्यनेन कर्त्तरि । कथमिति - जिगमिषित्रीयते इत्यत्र आत्मनेपदे इडभावः प्राप्नोतीत्याशङक्याह- आत्मनेपदस्येति केचित्तु आत्मनेपदविषयस्येति सामान्योक्ता - asपि कर्त्तर्येवात्मनेपदविषयता ज्ञेया भावकर्म्मणोस्तु सर्वेऽपि घातव आत्मनेपदविषया एव इति व्यवच्छेद्य किमपि न स्यात्, आत्मनेपदं चेन्न भवतीति द्वितीयव्याख्यानादिहात्मनेपदविषयादात्मनेपदाऽभावो लभ्यते । प्रकृतिविशेषणं व्याख्येयमिति पुनर्गम् ग्रहणादन्यथा पूर्वसूत्राद् गम इत्यधिकारेणैव सिद्धम् । अयमर्थो भवतीति - प्रथममतविपरीतः ।
स्नोः
: ।। ४. ४. ५२ ॥
स्नोः परस्य स्ताद्यशित आदिरिड् भवति आत्मनेपदं चेन्न भवति । प्रस्नविष्यति, प्रस्नविता प्रस्नवितासि । प्रस्नवितास्मि प्रस्नवितुम् प्रस्नवितव्यम्, प्रसुस्नूषतीत्यत्र 'ग्रहगुहश्व सनः' (४-४-६० ) इत्यनेनेट्प्रतिषेधः । अनात्मने इत्येव ? प्रस्नोष्यते, प्रस्नोयमाणः प्रास्नोयत, प्रस्नोषीष्ट, प्रास्नोष्ट, प्रस्नोता, प्रस्नोतासे, प्रस्नोताहे । प्रस्नवितेवा• चरति प्रस्नवित्रीयत इत्यत्र त्वात्मनेपदस्य बहिरङ्गत्वात् तदाश्रयः प्रतिषेधो न भवति । नौर सिद्ध एव । प्रतिषेधाभावादात्मनेपद इडनिवृत्त्यर्थं तु वचनम् । एवमुत्तरयोगोऽपीति ।। ५२ ।।