________________
१७८ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद ४, सूत्र-३१-३३
न्या० स०-एत्यस्ते०-आदेरितीति-( अथ पूर्वसूत्रे आदि शब्दः प्रथमान्तस्तत्कथमात्र षष्ठयन्त इत्याह ) अर्थवशादिति शेषः । यत्वाऽल्लगऽपवादश्चायमिति-अयमर्थः इणो 'ह्विणोरप्विति व्यौ' ४-३-१५ इति नित्यं यत्वे प्राप्ते वचनं तत्साहचर्यादिकोऽपि 'इको वा' ४-३-१६ इति वा यत्वे कर्तव्ये बाधकमिदं यत्वाऽभावपक्षे तु इयि सत्युत्तरेणैव वृद्धिः।
स्वरादेस्तासु॥ ४. ४.३१॥
स्वरादेर्धातोरादेः स्वरस्य तास्वद्यतनीक्रियातिपत्तिास्तनीषु विषये आसन्ना वृद्धिर्भवति अमाङा।
__ आटोत् , आशीत् , आटिष्यत् , आशिष्यत् , प्राटत् , आश्नात् प्रा त् , आछिष्यत् , आर्छत् , ऐषीत् , ऐषिष्यत् , ऐच्छत् , ऐक्षिष्ट, ऐक्षिष्यत, ऐक्षत, ऐधिष्ट, ऐधिष्यत, ऐधत, औब्जीत् , प्रोग्जिष्यत् , औब्जत, औहिष्ट, औहिष्यत, औहत, ओण,-औणिणत् , औणिष्यत् , औणत् , इन्द्रमैच्छत् ऐन्द्रीयत् , उस्रामैच्छत् प्रौस्रीयत् , एणमैच्छत् ऐणीयत् , ऐश्वर्यमैच्छत् ऐश्वर्योयत्, ओंकारमैच्छत् औंकारीयत् , आ ऊढा ओढा तामैच्छत् प्रौढीयत् , औषधमैच्छत् प्रौषधीयत् , अमाडेत्येव, मा भवानटीत् , मा स्म भवानटत् ।।३१।
न्या० स०-स्वरादे०-अत्र विषयव्याख्यानाद् व्यवधाने इत्यस्य आर्जेत्यत्रैव अदेश्चाऽटि आददित्यत्रैव आदिष्यदित्यत्रैव च स्यान्नाऽन्यत्र ।
स्ताद्यशितोऽत्रोणादेरिट् ॥ ४. ४. ३२ ॥
धातोः परस्य सकारादेस्तकारादेश्वाशितः प्रत्ययस्यादिरिड भवति 'प्रत्रोणादेः' त्रस्य उणादेश्च न भवति । अटिटिषति, अलविष्ट, लविषीष्ट, लविष्यति, अलविष्यत् , लविता, लवितव्यम् , लवितुम् ।
स्तादोति किम् ? त्रस्नुः, स्योमा, भूयात्, दीप्रः, ईश्वरः, विद्वान् । प्रशित इति किम ? प्रास्से । आस्ते । अत्रोणादेरिति किम् ? शस्त्रम् , योत्रम् , पत्त्रम् , पोत्रम् , उणादि, वत्सः, अंसः, दन्तः, हस्तः ।।३२।।
न्या० स०-स्ताद्यशितो०-स्योमेति-* असिद्धं बहिरङ्गम् ॐ इति स्वरानन्तर्ये नेष्यते तेन यत्वं सिद्धम् , अन्यथा ऊटोऽसत्त्वात् गुणः स्यात् ।
तेहादिभ्यः ॥ ४. ४. ३३ ॥
ग्रहादिभ्य एव परस्य स्ताद्यशितस्तेरादिरिट् भवति, तेरिति सामान्येन क्तेस्तिको वा ग्रहणम् । निगृहीतिः, अपस्निहिति, निकुचितिः, निपठितिः, उदितिः, मणितिः । रणितिः, मथितिः, लिखितिः, कम्पितिः, अन्दोलितिः। बहुवचनमाकृतिगणार्थम् । तेर्ग्रहादिभ्य एवेति नियमादन्यत्र न भवति । शान्तिः, वान्तिः, दीप्तिः, ज्ञप्तिः, सस्तिः, ध्वस्तिः । तिकः खल्वपि-तन्तिः, सन्तिः, कण्डूतिः । णौ,-पाक्तिः, याष्टिः, प्रज्ञप्तिः । तेरेव ग्रहादिभ्य इति विपरीतनियमो न भवति, उत्तरत्र ग्रहः परोक्षायामिटो दीर्घनिषेधात् ॥३३॥