________________
पाद- ४, सूत्र - ३४-३५ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः ।
[ १७९
न्या० स० - तेर्ग्रहा० - तन्तिरिति न तिकि दीर्घश्च' ४-२ - ५९ इति निषेधाल्लुग्दीर्घाऽभावः । सन्तिरिति षणूयी इत्यस्य रूपं 'तौ सनस्तिकि' ४-२ - ६४ इति लुगाकारौ वा भवतः, दीर्घस्तु 'न तिकि: ' ४-२-५९ इति निषेधान्न । षन भक्तावित्यस्य तु सान्तिरिति स्यात्, न वाच्यं तस्यापि 'न तिकि' ४-२ - ५९ इति निषेधस्तत्र तनादेरुपादानात् ।
गृह्णोऽपरोक्षायां दीर्घः ॥ ४. ४. ३४ ॥
गृह्णातेर्यो विहित इट् तस्य दीर्घो भवति 'अपरोक्षायाम्' न चेत् स इट् परोक्षायां भवति । ग्रहीता, ग्रहीतुम्, ग्रहीषीष्ट, ग्रहीष्यति, अग्रहीष्यत्, अग्रहीत् । दीर्घस्य स्थानिवड्रावादिटईतीति सिचो लुग्भवति । न चायं वर्णविधिः । इट इति रूपाश्रयत्वात् । अग्रहीध्वम् श्रग्रहीढ्वम् ।
9
विहितविशेषणं किम् ? यङन्ताद्विहितस्य माभूत् । जरीगृहिता, जरीगृहितुम्, जरी गृहितव्यम् । लुप्ततिनिर्देशाद्यङ्लुपि न भवति । जरीगहिता, जरीगहितुम्, जरीगहितव्यम् । अपरोक्षायामिति किम् ? जगृहिव, जगृहिम । इट इत्येव ? ग्राहिषीष्ट, अग्राहिषाताम् ग्राहिता, ञिटो माभूत् ||३४||
न्या० स०- गृहोप ० - जरो गृहितेति - 'योऽशिति' ४-३-८० इति यलोपे गृह्णातेः पर इट् अस्त्येव, अतो विहितव्याख्यानम् ।
वृतो नवानाशीः सिच्परस्मै च ॥ ४. ४. ३५ ॥
वृग्वृभ्यामुकारान्तेभ्यश्च धातुभ्यः परस्य इटो वा दीर्घो भवति परोक्षायामाशिषि परस्मैपदविषये सिचि च न भवति । वृग् - प्रावरीता, प्रावरिता, प्राविवरीषति, प्राविवरिषति । वृङ्, - वरीता, वरिता, विवरीषते, विवरिषते, ऋदन्त, -तरीता, तरिता, तितरीषति तितरिषति, जरीता, जरिता, जिजरीषति, जिजरिषति, वृत इति किम् ? करिष्यति, तकारो वर्णनिर्देशार्थः । अन्यथा समरीता समरितेति ऋणातेरेव विज्ञायेत ।
परोक्षादिवर्जनं किम् ? विवरिथ, तेरिथ, प्रावरिषीष्ट, आस्तारिषीष्ट । प्रावारिष्टाम् । प्रावारिषुः । आस्तारिष्टाम् । आस्तारिषुः । सिचः परस्मैपदविशेषणादात्मनेपदे दीर्घो भवत्येव । श्रवरोष्ट, अवरिष्ट, प्रावरीष्ट, प्रावरिष्ट, आस्तरीष्ट, आस्तरिष्ट । ३५ ।।
1
न्या० स०-वृतो न सिच्परम्मै चेति सिचः परस्मैपदमिति षष्ठीसमासः, यस्मिन् परस्मैपदे सिचः विधीयते तत् सिचः परस्मैपदं । विशेषणसमासो वा सिच् च तत्परस्मैपदं चेति, परस्मैपदनिमित्तत्वेनोपचारात् सिजपि परस्मैपदेनोच्यते । तकारो वर्णनिर्देशार्थ इतितकारोऽभावे ॠ इति निद्दिश्यमाने वृ इत्यनेन धातुना साहचर्यात् ऋश् गतावित्यस्यैव ग्रहणं स्यात्, न ऋकारान्तधातुमात्रपरिग्रहस्ततश्च समरीता समरितेत्यत्रैव स्यात्, तकारे तु सति ऋदित्यस्य धातोरभावात्तकारस्य च वर्णनिर्देशेषु प्रसिद्धत्वात् ऋकारवर्णविज्ञानात्तदन्तधातुमात्रप्रतिपत्तिर्भवति इति तकारोपादानम् ।