________________
पाद-४, सूत्र-२८-३० ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[ १७७
पयिषति, प्रध्यजीगपत् , अध्यापिपत् । णाविति किम् ? अधिजिगांसते । सन्ङ इति किम् ? अध्यापयति ॥२७॥
न्या० स०-गौसन्-अधिजिगापयिषतीति-अधीयानं प्रयुङ क्ते णिगि अन्तरङ्गयोरप्यात्वप्वागमयोरऽस्याऽपवादत्वात् अप्रवृत्तौ अध्याययितुमिच्छतीति सनि पाक्षिके गादेशे तदन्यत्रात्वे उभयत्र प्वागमे द्वित्वादौ च सिद्धं, यद्वा आपस्थाने गादेशे यावत्संभव इति न्यायात्पुन: पोन्तः।
वाद्यतनीक्रियातिपत्त्योर्गीङ् ॥ ४. ४. २८ ॥
अद्यतनीकियातिपत्त्योः परत इङो गीङादेशो वा भवति । अध्यगोष्ट, अध्यगीषाताम् , अध्यगोषत, अध्यष्ट, अध्यैषाताम् , अध्यैषत, क्रियातिपत्तिः-अध्यगोष्यत, अध्यगीध्येताम् , अध्यगोष्यन्त, अध्यष्यत, अध्यष्येताम् , अध्यष्यन्त । डकारो गुणनिषेधार्थः ॥२८॥
न्या० स०-वाद्यतनीक्रि०-अध्यगोष्टेति-अन्तरङ्गत्वात् प्रागेव सिचो गीङ । गुणनिषेधार्थ इति-न वाच्यं विधानसामर्थ्यात् न भविष्यतीति, तदा ह्यऽध्यगायीत्यत्र वृद्धिरपि न स्यात् ।
अड्धातोरादिह्य स्तन्यां चामाङा ॥ ४. ४. २१ ॥
शस्तन्यामद्यतनी क्रियातिपत्त्योश्च विषये धातो: आदिरवयवोऽड् भवति, 'अमाङा' माङा योगे तु न भवति ।।
अकरोद , अकार्षीत , अकरिष्यत विषयविज्ञानात् प्रत्ययव्यवधानेऽपि भवति, परविज्ञाने हि अहन्नित्यादावेव स्यात् । अमाङेति किम् ? मा भवान् कार्षीत , मास्म करोत् । अस्मद्विना मा भृशंमुन्मनी भूः । धातोरादिरिति किम् ? प्राकरोत् ।।२६।।
न्या० स०-अड् धातो. आदिरवयव इति अटो धात्वऽवयवत्वे प्रयमिमीतेत्यादौ णत्वम् । अहन्नित्यावाविति-आदिशब्दादभोत्स्यत इत्यादौ ।
एत्यस्ते द्धिः ॥ ४. ४. ३० ॥
इणिकोरस्तेश्चादेः स्वरस्य हस्तन्यां विषये वृद्धिर्भवति अमाङा । आदेरिति विभक्तिविपरिणामात् । आयन् , अध्यायन् , आस्ताम् , आसन् । अमात्येव मा स्म भवन्तो यन् , मा स्म भवन्तः सन् ।
यत्वे लुकि च स्वरादित्वाभावादुत्तरेण वृद्धिर्न प्राप्नोतीति वचनम् । विषयत्वविज्ञानात्परत्वाद्वा प्रागेव वद्धौ कृतो यत्वाल्लको: प्राप्तिरिति चेत? सत्यम,-डदमेव वचनं ज्ञापकं कृतेऽन्यस्मिन् धातुप्रत्ययकार्ये पश्चादवृद्धिस्तद्बाध्योऽट् च भवति, तेन ऐयरुः अध्ययतेत्यादावियादेशे सति वृद्धिः सिद्धा। प्रचोकरदित्यादौ च दीर्घत्वम् । पूर्वमटि तु स्वरादित्वात्तन्न स्यात् , यत्वाल्लुगपवादश्वायम् । तेनेकः पक्षे यत्वाभावेऽध्ययन्नित्यत्रेयि सत्युत्तरेणैव वृद्धिर्भवति ॥३०॥