________________
१७६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-४, सूत्र-२३-२७
(४-३-४७) इति वृद्धिर्न भवति । 'वा त्वात्मने' प्रावधिष्ट, आवधिषाताम , प्रावधिषत, । अवधि, आहत, प्राहसाताम् , आहसत, अघानि । अद्यतन्यामिति किम् ? आजघ्ने ॥२२।।
न्या० स०-अद्यतन्यां-अवधीदिति-विषयविज्ञानात् प्रत्ययव्यवधानेऽपि भवति, यथाऽडागमः । किंच विषयव्याख्यां विनाऽवधीदित्यत्र 'एकस्वरादनुस्वारेतः' ४-४-५६ इत्यनेन विहितव्याख्यानादिट् न स्यात् ।
इणिकोः ॥ ४. ४. २३ ॥
अद्यतन्यां विषये इण इकश्च धातोर्गा इत्ययमादेशो भवति । अगात , अगाताम, अगुः, अगायि भवता, अध्यगात् , अध्यगाताम् , अध्यगुः, अध्यगायि भवता ।।२३॥
न्या० स० - इणिको-अत्र विषयव्याख्यां विनाऽगादित्यादिषु सिचो लुपि स्यात् न त्वऽगायीत्यत्र त्रिचा व्यवधानात् ।
णावज्ञाने गमुः ।। ४. ४. २४ ।।
इणिकोरज्ञाने वर्तमानयोणौ विषये गमु इत्ययमादेशो भवति । उकारः 'स्वरहनगमोः सनि धुटि'(४-१-१०४) इत्यत्र विशेषणार्थः । गमयति, गमयत:, गमयन्ति ग्रामम् , अधिगमयति, अधिगमयतः, अधिगमयन्ति प्रियम् ।
अज्ञान इति किम् ? अर्थान् प्रत्याययति, अज्ञान इतीणो विशेषणं नेकोऽसंभवात् , धात्वन्तरेणैव सिद्ध णाविको ज्ञानादन्यत्रेणश्च रूपान्तरनिवृत्यर्थं वचनम् , कथमर्थान् गमयन्ति शब्दा: ? गमिनैव सिद्धम् ॥२४॥
न्या० स०-णावऽज्ञाने-अत्र विषयविज्ञानेऽजीगमसिद्धमन्यथा णौ परे गमादेशे * णौ यत्कृतं कार्यम् के इति न्यायाद् इ इति द्विर्वचनं स्यात् ।
सनीङश्च ॥ ४. ४. २५ ॥
इङ इणिकोश्चाज्ञाने वर्तमानयोः सनि परे गमुरादेशो भवति, अज्ञान इति इण एव विशेषणम् नेकिङोरसंभवात् । इङ्,-अधिजिगांसते विद्याम् , इण-अधिजिगमिषति ग्रामम् , इक्-मातुरधिजिगमिषति । अज्ञान इत्येव ? अर्थान् प्रतीषिषति ।।२५।।
गाः परोक्षायाम् ॥ ४. ४. २६ ॥
इङः परोक्षायां विषये गादेशो भवति । अधिजगे, अधिजगाते, अधिजगिरे, अधिजगिषे । विषयनिर्देशः किम् ? आदेशे सति द्विवचनं यथा स्यात् , तेन प्राक्तु स्वरे स्वरविधेरिति नोपतिष्ठते ।।२६॥
णो सन्डे वा ॥ ४. ४. २७॥ सन्परे ङपरे च णौ परत इडो गादेशो वा भवति । अधिजिगापयिषति, अध्यापि