________________
पाद-४, सूत्र-११-१४ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[ १७३
धाजितस्य दासंज्ञकस्य तादौ किति परे दत इत्ययमादेशो भवति । दत्तः, दत्तवान् , दत्तिः, दत्त्वा। द्यतेः परत्वादित्वम् । दितः, दितवान् । द इत्येव ? दातं बहिः, प्रवदातम् मुखम् । अध इत्येव ? धोतः, धीतवान् , धीत्वा, धीतिः ।।१०।।
दोसोमास्थ इः ॥ ४. ४. ११ ॥
एषां तादौ किति प्रत्यये इरन्तादेशो भवति । द्यतेर्दद्धावस्य शेषाणामीत्वस्यापवादः । दो,-निदितः, निदितवान् , दित्वा, दितिः, सो,-अवसितः, अवसितवान , सित्वा, सितिः, मा,-मितः, मितवान् , मित्वा, मितिः।
गामादाग्रहणेष्वविशेष इति माङ्मामेडां ग्रहणम् , अन्यस्तु माङ् डोरेवेच्छति । मातेस्तु मातः मातवान प्रस्थः स्थाल्याम । स्था, स्थितः । स्थितवान । स्थित्वा । स्थितिः । दोसो इत्योकारनिर्देशो देवादिकयोरेव परिग्रहार्थः । तीत्येव ? यङ्लुपि इट् दादितः, दादितवान् । 'इडेत्पुसि चातो लुक' ( ४-३-६४ ) इति आतो लुक् । कितीत्येव ? अवदाता, अवसाता ॥११॥
न्या० स०-दोसो०-गामादाग्रहणेष्विति-'ईय॑ञ्जनेऽयपि' ४-३-९७ इति ईत्वस्यापवाद इति भणनात् ।
छाशो ॥ ४. ४. १२॥ .
छोशो इत्येतयोस्तादौ किति प्रत्यये परे इरन्तादेशो वा भवति । अवच्छितः, अवच्छितवान् , अवच्छातः, अवच्छातवान् , निशितः, निशितवान , निशात:, निशातवान् । श्यतिशिनोत्योरपि रूपद्वयसिद्धौ श्यतेविकल्पवचनं 'क्त नादिभिन्नै' (३-१-१०५) इति समासार्थम् । शाताशितम् ॥१२॥
न्या० स०-छाशोर्वा-समासार्थमिति-अन्यथा धातुभेदात् प्रकृतिभेदे स न स्यात् ।
शो व्रते ॥ ४. ४. १३ ॥
श्यतेः क्तप्रत्यये व्रतविषये प्रयोगे नित्यमित्वं भवति । संशितं व्रतम् , असिधारातीक्ष्णमित्यर्थः । संशितव्रत: साधः, संशितः साधूः, व्रते यत्नवानित्यर्थः । संशितशब्दः अन्यत्राप्यस्तीति व्रतमिति विशेषणं न दुष्यति, नित्यायं वचनम् , तेन व्रतविषये संशात इति न भवति । व्रत इति किम् ? निशातः ॥१३॥
न्या० स०-शो व्रते-विशेषणं न दुष्यतीति-ननु व्रते इत्वं प्रत्यपादि इत्युक्तार्थत्वात् व्रतस्याऽप्रयोगः प्राप्नोतीत्याह-अन्यत्राप्यस्तीति-अन्यस्मिन्नर्थे इत्यर्थः ।
हाको हिः क्वि ॥ ४. ४. १४ ॥ प्रोहांक इत्येतस्य तादौ किति क्त्वाप्रत्यये परे हिरादेशो भवति । हित्वा । ककारो