________________
बृहद्वृत्ति-लघुन्याससंवलिते
प्राद्दास्त आरम्भे ते ॥ ४. ४. ७ ॥
आरम्भ आदिकर्मणि वर्तमानस्य प्रशब्दादुत्तरस्य दाग: स्थाने क्ते प्रत्यये परे देशो वा भवति । प्रतः, प्रदत्तः, दातु प्रारब्धवानित्यर्थः । प्रादिति किम् ? परीत्तम्, उत्तरेण नित्यं त्तादेशः ।
१७२ ]
दाग इति किम् ? दोंच् प्रत्तम् । प्रारम्भ इति किम् ? अन्यत्र नित्यमेव । प्रकर्षेण दीयते स्म प्रत्तम् । क्त इति किम् ? प्रत्तवान् दातु ं प्रवृत्त इत्यर्थः । द्विस्तकार आदेश: सर्वादेशार्थ:, - प्रकार उच्चारणार्थः ॥७॥
[ पाद- ४, सूत्र - ७-१०
1
न्या० स०- प्रादा० - तादेशो वा भवतीति द्वितकारग्रहणं प्रक्रियालाघवार्थमन्यथाऽन्तस्य तादेशे 'अघोषे प्रथमोऽशिट : ' १ - ३ - ५० इति सिध्यति । प्रत्त इति दातुमारब्धवानिति वाक्यं, न तु प्रारब्धवानिति, प्रशब्दार्थस्यारम्भस्यारब्धवानित्यनेनैवोक्तत्वात् प्रशब्दप्रयोगे पौनरुक्त्यं भवति । सर्वादेशार्थ इति - अन्यथा षष्ठ्याऽन्त्यस्येति प्रवर्त्तते ।
निविस्वन्ववात् ॥ ४, ४.८ ॥
एभ्यः परस्य दागः क्ते परे त्तादेशो वा भवति । नित्तम्, निदत्तम्, वीत्तम्, विदत्तम्, सूत्तम्, सुदत्तम्, अनूत्तम्, अनुदत्तम् अवत्तम्, अवदत्तम्, सुदत्तमेवेत्यन्ये, उत्तरेण नित्यं तादेशे प्राप्ते विभाषेयम् केचिदत्राप्यारम्भ एव विकल्पमिच्छन्ति । यदाहु:
'अवदत्तं विदत्तं च प्रदत्तं चादिकर्मणि ।'
सुदत्तमनुदत्तं च निदत्तमिति चेष्यते इति । तन्मतसंग्रहार्थमारम्भ इत्यनुव:र्तनीयम् ||८||
2
स्वरादुपसर्गाद्दस्ति कित्यधः ॥ ४. ४. १ ॥
पूर्वयोगारम्भाद्वेति निवृत्तम् । स्वरान्तादुपसर्गात्परस्य धार्वाजतस्य दासंज्ञकस्य तकारादौ किति प्रत्यये परे तादेशो भवति । प्रत्त:, प्रत्तवान्, परीत्तः परीत्तवान्, परीत्रिमम् प्रणीत्त्रिमम्, त्रिमक् । द्यतेरपीत्वं बाधित्वा विशेषविहितत्वात् त्तत्वमेव भवति, अवत्तवान् । अवत्तिः ।
उपसर्गादिति किम् ? दधि दत्तम्, लता दिता । स्वरादिति किम् ? निर्दत्तम्, दुर्दत्तम्, निर्दित्तम्, दुर्दित्तम् । द इति किम् ? प्रदाता व्रीहयः, निदातानि भाजनानि । कितीति किम् ? प्रदाता । तीति किम् ? प्रदाय । प्रध इति किम् ? धांग्,- निहितः, वें,निधीतः ।। ६ ।।
,
न्या० स०- स्वरादु० - तत्वमेव भवतीति-उपसर्गात् इति विशेषविधानात् उत्तरत्र तु सामान्यम् । अवत्तिरिति अवदानम् । ' उपसर्गादात : ' श्वादिभ्यः क्तिः ।
५ -३ - ११० इति बाधक :
दत् । ४. ४. १० ॥