________________
पाद-४, सूत्र-३-६ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[ १७१
त्रने वा ॥ ४. ४. ३ ॥
तृ अन इत्येतयोः प्रत्यययोविषयभूतयोरजेवौं इत्यादेशो भवति वा । प्रवेता, प्राजिता, प्रवयणो दण्डः, प्राजनो दण्डः, अन्य त्वने प्रत्यये यकाररहिते व्यञ्जनादौ चाविशेषेण विकल्पमिच्छन्ति । प्रवेता, प्राजिता प्रवेष्यति, प्राजिष्यति, प्रविवीषति, प्राजिजिषति, प्रवेतव्यम् , प्राजितव्यम् , प्रवेतुम् , प्राजितुम् ।।३।।
चक्षो वाचि क्शांग् ख्यांग ॥ ४. ४. ४ ।।
चक्षिको वाचि वर्तमानस्याशिति प्रत्यये विषयभूते शांग ख्यांग इत्यादेशौ भवतः, अनुस्वारेदिडभावार्थः । प्राक्शाता आखशाता । 'शिटयाद्यस्य द्वितीयो वा' (२-३-५९) इति ककारस्य खकारः । आख्याता, प्राक्शास्यति, प्राशास्यति, प्राख्यास्यति, आक्शास्यते, आख्शास्यते, आख्यास्यते, आक्शेयात , आक्शायात , आख्शेयात , आख्शायात् , आख्येयात् , आख्यायात , एवमाचाक्शायते, आचाख्यायत, प्राक्शातव्यम् , आख्यातव्यम् । विषयसप्तमीविज्ञानात् आक्शेयम् , आख्येयम् ।
वाचीति किम् ? बोधो, विचक्षणः, चक्षुः,-वर्जने,-संचक्ष्यते, अवसंचक्ष्याः परिसंचक्ष्या दुर्जनाः, संचक्ष्य गतः, हिंसायाम्-नृचक्षा राक्षसः । प्रशितीत्येव,-पाचष्टे, गकारः फलवद्विवक्षायामात्मनेपदार्थस्तेन स्थानिवद्भावेन नित्यमात्मनेपदं न भवति । ४।।
नवा परोक्षायाम् ॥ ४. ४.५ ॥
चक्षिको वाचि क्शांगख्यांगौ परोक्षायां वा भवतः । प्राचक्शौ, प्राचखशौ, आचख्यौ, प्राचक्शे, प्राचशे, आचख्ये, पक्षे-आचचक्षे ।। ५ ।।
भृज्जो भर्ज ॥ ४. ४. ६ ॥
भृज्जतेरशिति प्रत्यये भज इत्ययमादेशो वा भवति । बभर्ज, बभर्जतुः, बभर्जु:, बभ्रज्ज, बभ्रज्जतुः, बभ्रज्जुः, भीष्ट, भ्रक्षीष्ट, भ्रष्र्टा, भ्रष्टा, अभाीत् , अभ्राक्षीत् , बिभक्षति बिभ्रक्षति, बिजिषति, बिभ्रज्जिषति, भष्टुम् , भ्रष्टुम् , भर्म्यम् , भ्रद्ग्यम् , भर्गः, भ्रद्गः भर्जनम् , भ्रज्जनम् ।
___ अशितीत्येव,-भृज्जति, भूज्जते । कथं भृज्यात्, भृज्यते, भृष्टः, भृष्टवान् , बरीभूज्यते ? परत्वाद् भर्जादेशेऽपि स्थानिवद्भावेन पूर्वेण स्वरेण सह वृति भविष्यति, लुप्ततिनिर्देशो यड्लुनिवृत्त्यर्थः । बर्भज्यते,-अत्र द्वित्वे सपूर्वस्य माभूत् ।।६।।
न्या० स०-भृज्जो भ०-भ्रद्ग्यमिति-भृज्ज्यते 'ऋवर्ण' ५-१-१७ इति द: घ्य णि 'क्तेऽनिटः' ४-१-१११ इति गे निमित्ताऽभावे इति दन्त्यः सः तस्य 'तृतीयस्तृतीय.' १-३-४९ इति । कथं भृज्ज्यादिति-भर्जादेशः कथमत्र न भवतीत्याशङ्कार्थः । सपूर्वस्य माभूदिति-प्रकृतिग्रहणेति न्यायात्प्राप्तिः ।