________________
१७० ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-४, सूत्र-१-२
न्या स०-अस्च०-दधि भक्षितुमिच्छतीति-केचिल्लक्षीस्थाने भक्षीति पठन्ति तन्मतेनेदं, चरादीनां णिचोऽनित्यत्वाद् वा । दधिस्यतीति-द्विसकारपाठात् 'नाम्यन्तस्था' २-३-१५ इति न षत्वम् । पय इच्छति क्यनियमेन पदसंज्ञाकार्याणां व्यावत्तितत्वात् । पयसस्यति चर्मणस्यति, स्से तु सति पयस्स्यति चर्मस्यति ।
इत्याचार्यश्रीहेमचन्द्र० श्रीसिद्धहेमचन्द्राभिधानास्वोपज्ञशब्दानुशासनबृहद्वत्तौ न्यासस्य चतुर्थाध्यायस्य तृतीयः पादः समाप्तः ।
-
-
अथ चतुर्थः पादः अस्तित्रु वो वचावशिति ॥ ४. ४. १ ।।
अस्तिब वोर्यथासंख्यं भू वच् इत्येतावादेशौ भवतः अशिति प्रत्यये विषयभूते । अभूत, बभूव, भविता, भूयात् , अभविष्यत् , भविष्यति, बोभूयते, बुभूषति, भवितव्यम्, भवितुम् , ब-अवोचत् , अवोचत, उच्यते, उवाच, ऊचे, वक्ता, उच्यात् , वक्षीष्ट, अवक्ष्यत्, अवक्ष्यत, वक्ष्यति, वक्ष्यते, वावच्यते, विवक्षति, विवक्ष्यते, वक्तव्यम् , वक्तुम् । बग्कोऽनुस्वरित्त्वाद्वच इडभावः।
__ कथं लावण्य, उत्पाद्य, इवास, यत्न: ? असतेरयं प्रयोगः। ईक्षामासेत्यादौ णवन्तानुप्रयोगप्रतिरूपकनिपातस्य वा । अशितीति किम् ? अस्ति, स्यात् , अस्तु, आसीत् , सन्ब्रवीति, ब्र ते, ब्र यात् , ब्रवीतु अब्रवीत , ब्रवन् , ब्रुवारणः । विषयसप्तमोनिर्देशः किम् ? भव्यम् , वाच्यम् । प्रागेवादेशे यध्यणौ सिद्धौ। चकासामासेत्यादौ तु अनुप्रयोगे कृभ्वस्तोनां पृथग निर्देशात् न भवति, अस्तीति निर्देशादस्यतेरसतेश्च न भवति । धात्वन्तरेणैव सिद्धेऽस्तिब वोरशिति प्रयोगनिवृत्त्यर्थ वचनम् ब्रू गादेशस्य फलवत्यात्मनेपदार्थ च ।।१।।
न्या० स०-प्रह-अस्तिबु वो० निर्देशान्न भवतीति-अन्यथा कृग्भ्वोरेव द्वयोरुपादानं कुर्यात् ।
श्रघक्यबलच्यजेव: ।। ४. ४.२ ॥
घजक्यबअल्अचव जितेऽशिति प्रत्यये विषयभूतेऽजेर्वी इत्यादेशो भवति । अनुस्वारेदिडभावार्थः । विवाय, वीयात् , प्रवेता, प्रवेयम् , प्रवयणीयम् , प्रवायकः, प्रवीय, प्रवीतः, प्रवीतिः ।
अघक्यबलचीति किम् ? समाजः, उदाजः, समज्या, सयजः पशूनाम् , उदजः पशूनाम् , अजतोत्यजः, अजा ॥२॥
न्या० स०-अघञ्-विषयभूते इति-विषयविज्ञानाद्यङि वेवीयते प्रवेयमित्यत्र च प्रागेवादेश सति यङ यप्रत्ययः ।