________________
पाद-३, सूत्र-११४-११५ ] श्रोसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[ १६९
शनशब्दस्यात्वम् तृषि गम्यमानायामुदकशब्दस्योदनित्ययमादेशो, गर्धे गम्यमाने धनशब्दस्यात्वम् क्यनि परे निपात्यते । अशनायति, उदन्यति, धनायति । क्षुत्तङ्गर्ध इति किम् । प्रशनीयति, उदकीयति, धनीयति दानाय ।।११३।।
वृषाश्वान्मथने स्सोऽन्तः ॥ ४.३.११४ ।।
वृषशब्दादश्वशब्दाच्च मैथने वर्तमानात क्यनि परे स्सकारो भवति, स चान्तोऽवयवः । वृपस्यति गौः । अश्वस्यति वडवा । वृषाश्वशब्दावत्र मैथुने वर्तते, मनुष्यादावपि हि प्रयुज्यते । मैथुनेच्छापर्यायौ वृषस्याश्वस्येति ।
'सा क्षीरकण्ठकं वत्सं वृषस्यन्ती न लज्जिता' । शुनी गौश्च स्वमश्वस्यति । लक्ष्मणं सा वृषस्यन्ती महोक्षं गौरिवागमत् ।
मैथुन इति किम् ? वृषोयति, अश्वीयति ब्राह्मणी । स्स इति द्विसकारनिर्देश: पत्वनिषेधार्थः । तेनोत्तरत्र दधिस्यति मधुस्यतीत्यत्र षत्वं न भवति ।। ११४॥
न्या० स०-वृषाश्वान्०-मैथुनेच्छायां वर्तमानौ क्व दृष्टावित्याह-सा क्षीरकण्ठकं वत्समित्यादि-अन्तशब्दाभावे सप्पिष्ष्यतीत्यत्रोत्तरेण सागमे तस्य च प्रत्ययत्वात् 'नाम सित्' १-१-२१ इत्यनेन सर्पिसशब्दस्य पदत्वे सो रुत्वं स्यात्तस्य 'शषसे शषसं वा १-३-६ इति वा रस्य सत्वे सप्पिः स्यति सप्पिस्स्यतीति रूदद्वयं स्यात् , अन्तसद्भावे त्ववयवत्वेनाविभक्त्यन्तात् सकारस्योत्पादे पदमध्यत्वात्प्रकृतिसस्य 'नाम्यन्त' २-३-१५ इति षत्वे 'सस्यशषौ' १-३-६१ इति प्रत्ययसस्य षत्वे सप्पिषष्यतीति स्यात् । षत्वं न भवतीति-दधिस्यतीत्यादिप्रयोगदृष्टे: प्रसिद्धस्यैव 'नाम्यन्तस्था' २-३-१५ इति षत्वस्य निषेधस्तेन सप्पिष्स्यतीत्यादावागमसकारस्य 'सस्य शषौ' १-३-६१ इत्यनेन षत्वं सिद्धम् ।
अस् च लौल्ये ॥ ४. ३. ११५ ॥
भोक्तुमभिलाषातिरेको लोल्यम् , तत्र गम्यमाने क्यनि परे नाम्नः स्सोऽस चान्तो भवति । दधि भक्षितुमिच्छति दधिस्यति, दध्यस्यति, मधुस्यति मध्वस्यति, एवं क्षीरस्यति, लवणस्यति ।
अस्विधानमनकारान्तार्थम् । अकारान्तेषु हि 'लुगस्यादेत्यपदे' (२-१-११२) इति लुकि सति विशेषो नास्ति, अन्यस्तु लुकममृष्यमाणः क्षीरास्यति लवणास्यति इत्युदाहरतितच्च न बहुसंमतम् । लौल्य इति किम् ? क्षीरीयति दानाय ॥११॥
इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानत्वोपज्ञशब्दानुशासनबृहद्वृतो चतुर्थस्याध्यायस्य तृतीयः पादः ।।
कर्णं च सिन्धुराजं च निर्जित्य युधि दुर्जयम् ।। श्रीभीमेनाधुना चक्र महाभारतमन्यथा ॥१॥