________________
१६८ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-३, सूत्र-१०८-११३
दीर्घश्च्चियङ्यक्क्येषु च ॥ ४. ३. १०८॥
च्वौ यङि यकि क्येषु यकारादावाशिषि च परतोऽन्त्यस्वरस्य दी| भवति । च्विशुचीकरोति, शुचीभवति, शुचीस्यात् , पटूकरोति, पटूभवति, पटूस्यात् । यङ्-चेचीयते, तोष्ट्रयते, यक्-मन्तूयति, । वल्गूयति । बहुवचनात् क्यशब्देन क्यन्क्यब्यक्यानामविशेषण ग्रहणम् , अन्यथैकानुबन्धस्यैव क्यस्य ग्रहणं स्यात् । क्यन्-निधीयति, दधीयति, क्यङ्,-श्येनायते, भृशायते, क्यङ्,-लोहितायते, लोहितायति, क्य, चीयते, श्रूयते, आशिषि यि,-चीयात , स्तूयात, इयात । आशिषि यीत्येव,-चेषीष्ट । विक्यानां ग्रहणादधातोरप्ययं विधिः ॥ १०८॥
न्या० स.- दीर्घश्च्वि०-च्च्यन्तत्वात् सेः 'अव्ययस्य' ३-२-७ इति लुप् । ऋतो री॥ ४. ३. १०१॥
धातोरधातोर्वा ऋदन्तस्य श्रुतत्वाहत: स्थाने रीरित्ययमादेशो भवति । च्वियङ्यकक्येषु । पित्रीकरोति, पित्रीभवति, पित्रीस्यात् , चेक्रीयते, जेहीयते, पित्रीयति, मात्रीयति, पित्रीयते, मात्रीयते । ऋत इति किम् ? चेकीर्यते, निजेगिल्यते ।।१०९।।
रिः शक्याशीर्ये ॥ ४. ३. ११०॥
ऋकारान्तस्य धातोऋत: स्थाने शे क्ये आशीये च परे रिरादेशो भवति । शे ग्याप्रियते, आद्रियते, क्रिया, क्रियते, ह्रियते, क्रियात् , ह्रियात् । ह्रस्वविधानात्पूर्वेण दीर्घत्वं न भवति । आशीर्य इति किम् ? कृपोष्ट, हृषीष्ट ॥११०॥
न्या० स०-रिः शक्य-दीर्घत्वं न भवतीति-अन्यथा पूर्वेणापि साध्येत । ईश्च्याववर्णस्यानव्ययस्य ॥ ४. ३, १११ ॥
अव्ययजितस्यावर्णान्तस्य च्वो प्रत्यये ईकारोऽन्तादेशो भवति । शुक्लीकरोति, शुक्लीभवति, शुक्लीस्यात् , मालीकरोति, मालीभवति, मालीस्यात् । प्रनव्ययस्येति किम् ? विवाभूता रात्रिः, दोषाभूतमहः । दीर्घत्वापवादो योगः ।।१११।। .
क्यनि ॥ ४. ३. ११२॥
क्यनि परेऽवर्णान्तस्येकारोऽन्तादेशो भवति, दीर्घत्वापवादः । पुत्रीयति, मालीयति, योगविभाग उत्तरार्थः ।।११२।।
न्या० स०-क्यनि-अव्ययात् क्यनोऽभावादनव्ययस्येति न विवृत्तम् । तुत्तङ्गर्धेऽशनायोदन्यधनायम् ॥ ४. ३. ११३॥ भुवादिष्वर्थेषु यथासंख्यमशनायादयः क्यानन्ता निपात्यन्ते, क्षुधि गम्यमानायाम