________________
पाद-३, सूत्र-१०४-१०७ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः ।
[१६७ -
श्वयति असू वच पत् इत्येतेषामङि परे श्व अस्थ वोच पप्त इत्येते प्रादेशा भवन्ति । अश्वत , अश्वताम् , अश्वन , अश्वः । असू,-आस्थत, आस्थताम् , आस्थन् , अपास्थत, अपास्थेताम् , अपास्थन्त, वच् ब्रूग वा-प्रवोचत् , अवोचताम् , अवोचन , अवोचत । पत् ,-अपप्तत् , अपप्तताम् , अपप्तन् । श्वयतेस्तिवनिर्देशो यङ्लुपनिवृत्त्यर्थः । अश्वियत , अशोशुवत ॥१०॥
न्या० स०-श्वयत्यसू०- यङ्लुनिवृत्त्यर्थ इति-अन्येषां तु यङलुपि मूलप्रयोगा एव । शीङ ए: शिति ॥ ४. ३. १०४॥
शोङ: शिति परे एकारोऽन्तादेशो भवति । शेते, शयाते, शेरते, शेताम , शयीत , अशेत, शयानः, अतिशयानः । शितीति किम् ? शिश्ये, संशोतिः, डिनिर्देशाद्यङ्लुपि न भवति । शेशीतः, शेश्यति ।।१०४॥
क्ङिति यि शय् ॥ ४. ३. १०५ ॥
शीङः विङति यकारादौ प्रत्यये शयादेशो भवति । शय्यते, शाशय्यते, संशय्य, शय्या। योति किम् ? शिश्यानः । विडतीति किम् ? शेयम् । यङ्लुपि न भवतिसंशेशीय ।। १०५।।
उपसर्गादूहो ह्रस्वः॥ ४. ३. १०६ ॥
उपसर्गात्परस्योहतेरूकारस्य विङति यकारादौ प्रत्यये परे ह्रस्वो भवति । समुह्यते, समुह्यात् , समुह्य, पर्युह्यते, पर्यु ह्यात् , पर्यु ह्य, अभ्युह्यते, अभ्युह्यात् , अभ्युह्य । उपसर्गादिति किम् ? ऊह्यते, यीत्येव,-समूहितम् । क्ङितीत्येव,-अभ्यूह्योऽयमर्थः। ऊ ऊह इति ऊकार प्रश्लेषात् आ जाते ओह्यते समोह्यते समौह्यतेत्यत्र न भवति ॥ १०६ ॥
__ न्या० स०-उपसर्गादूह०-प्रश्लेषादिति-ऊकारात् षष्ठ्याः सूत्रत्वाल्लुप् ऊहश्च षष्ठी एवं प्रश्लेषः, एवमुत्तरसूत्रेऽपि इणं इत्यत्र ।
आशिषीणः॥ ४. ३. १०७॥
उपसर्गात्परस्येण ईकारस्य विङति यकारादावाशिषि परतो ह्रस्वो भवति । उदियात् , समियात् , अन्वियात् । उत्तरेण दीर्घत्वेऽनेन ह्रस्वः । आशिषीति किम् ? उदीयते । उपसर्गादित्येव,-ईयात् । ई इण इति ईकारप्रश्लेषात् प्रा ईयात् एयात् समेयादित्यत्र न भवति ।
ननु प्रतीयादित्यत्र समानलक्षणे दीर्घ सति कथं न ह्रस्वः ? न,-दीर्घ सति उपसर्गात्परस्य इणोऽभावात् । केचित् अत्रापीच्छन्ति । प्रतियात् । इकोऽपि समानदीर्घत्वे इच्छन्त्येके-अधियात् ।। १०७ ॥
न्या० स०-आशिषीणः-इणोभावादिति-धात्वभावादित्यर्थः । अत्रापीच्छन्ति-ते ह्य भयोः स्थाने इति धातुव्यपदेशमेकदेशेऽपि समुदाय इति प्रत्युपसर्ग च कुर्वते ।