________________
१६६ ]
बृहवृत्ति-लघुन्याससंवलिते
[पाद-३, सूत्र-९८-१०३
न्तलोपविधानाव्यञ्जनादौ लब्धे व्यञ्जनग्रहणं साक्षाव्यञ्जनप्रतिपत्यर्थम् , तेन क्विब्- । लुकि स्थानिवद्भावेनापि न भवति,-शंस्थाः पुमान् ॥१७॥
न्या० स०-ईय॑जने०-हाङो न भवतीति-'हाकः' ४-२-१०० इति भणनात् । शंस्था इति-शं सुखं तत्र तिष्ठति 'शमो नाम्न्यः' ५-१-१३४ इति अप्रत्ययापवादे 'स्थापास्ना' ५-१-१४२ इति के प्राप्तेऽसरूपत्वात् क्विप् , शंस्थाशब्दादन्यत्र लुप्तव्यञ्जनेऽपीच्छन्त्येके, तथा च जयकुमार: 'पां पाने' इत्यस्य क्विपि पीरित्याह ।
घ्राध्मोयेङि॥ ४. ३.१८॥
घ्राध्मोर्यङि परे ईकारोऽन्तादेशो भवति । जेघ्रीयते, देध्मीयते । यडीति किम् ? घ्रायते, ध्मायते, यलुपि,-जाघ्रोतः, दाध्मीतः । अन्ये तु यङ्लुप्यपीच्छन्ति-जेघ्रोतः, देमीतः ॥१८॥
हनो नीर्वधे ॥ ४. ३. ११ ॥
हन्तेर्वधे हिंसायां वर्तमानस्य यङि हनी इत्यादेशो भवति । जेनीयते, द्विषो जेनीयिषीष्ट वः । वषे इति किम् ? गतौ-जंघन्यते, केचिदिमं विकल्पेनाहः, त्वं तु राजन चटकमपि न जंघन्यसे । दीर्घनिर्देशात् यङ्लुप्यपि-जेनीतः, नेच्छन्त्यन्ये जंघत इति भवति ॥१९॥
न्या० स०-हनो०-यङ्लुप्यपीति-यदि पूर्वसूत्रवत् यङयेव स्यात्तदा निरित्येव कुर्याद्दीघसिद्धावित्यर्थः ।
ञ्णिति घात् ।। ४. ३.१००॥
णिति प्रत्यये परे हन्तोर्धात इत्ययमादेशो भवति । घातः, घातयति, घातकः, साधुघाती, घातंघातम् । भियतीति किम् ? हतः ॥१०॥
त्रिणवि घन ॥ ४. ३. १०१ ॥
जौ णवि च प्रत्यये परे हन्तेर्घन् इत्ययमादेशो भवति । अघानि, जघान, महं जघन, अहं जघान ।।१०१॥
न्या० स०-मिणवि०-'अङ हिहनः' ४-१-३४ इति सिद्धौ णग्रहणं घात्बाधनार्थम् । नशेर्नेश वाङि॥ ४. ३. १०२॥
नशेरडि परे नेश् इत्ययमादेशो वा भवति । अनेशव , अनशन , अनेशताम् , अनशताम् , अनेशन् , अनशन , अनेशम् , अनशम् । अङीति किम् ? नश्यति ॥१०२॥
श्वयत्यसूवचपतः श्वास्थवोचपप्तम् ॥ ४. ३. १०३ ॥