________________
१६४ ]
बृहवृत्ति-लघुन्याससंवलिते
[पाद-३, सूत्र-८९-९४
न्या० स०-मेडो-अत्र मिदादेशेऽपि 'हस्वस्य तः' ४-४-११३ तान्तः सिध्यति । लाघवार्थ तु मिदादेश: ।
तेः क्षी॥ ४. ३. ८१ ॥
शेर्यपि परे क्षी आदेशो भवति । प्रक्षीय, उपक्षीय । निरनुबन्धनिर्देशात् क्षिषश् हिंसायामित्येतस्य न भवति । प्रक्षित्य, अस्यापि ग्रहणमित्यन्ये ।।८६॥
न्या० स०-क्षेः क्षी-निरनुबन्धनिर्देशादिति-अत्र पूर्वाचार्यप्रसिद्धानुबन्धग्रहात् क्षित् निवासे इत्यस्याऽपि ग्रहः ।
क्षय्यजय्यो शक्ती ॥ ४. ३.१०॥
क्षि जि इत्येतयोः शक्तौ गम्यमानायां यप्रत्ययेऽयन्तादेशो निपात्यते । शक्य: क्षेतुं, क्षय्यो व्याधिः, शक्यं क्षेतुं क्षय्यं बटुना, शक्य: जेतुम् जय्यः शत्रुः, शक्यं जेतुं जय्यं राज्ञा । शक्ताविति किम् ? अर्हे क्षेयम् , जेयम् ।।९०॥
क्रय्यः क्रयाथें ॥ ४.३.११ ॥
क्रोणातेर्यप्रत्ययेऽयन्तादेशो निपात्यते 'क्रया' कयाय चेत्प्रसारितोऽभिधेयो भवति । कय्यो गौः, कय्यः कम्बलः । क्रयार्थ इति किम् ? केयं नो धान्यम् न चास्ति प्रसारितम् ॥१॥
सस्तः सि ॥ ४.३.१२ ॥ ___ अशितीत्यनुवर्तते, धातोः सकारान्तस्याशिति सकरादौ प्रत्यये विषयभूते तकारोऽन्तादेशो भवति । वस्-वत्स्यति, प्रवत्स्यत् , अवात्सीत , वत्सीष्ट चत्रेण, व्यतिवत्सीष्ट, विवत्सति, प्रद-जिघस्सति, घस्-घत्स्यति, व्यतिघत्सीष्ट । स इति किम् ? यक्षीष्ट, यक्ष्यति । सीति किम् ? वसिषीष्ट, वसिष्यते । अशितीत्येव,-आस्से, वस्से । विषयसप्तमीविज्ञानात् प्रवात्ताम् अवात्तेत्यत्र प्रागेव सस्य तकारः ॥९२॥
न्या० स०-सस्तः सि-अवात्तामिति-न च सिचो लुपः स्थानित्वाद् भविष्यति इति वाच्यं, यतः सकारे त उक्तः सस्य वर्णविधित्वात ।
दीय दीङः क्ङिति स्वरे ॥ ४.३, १३॥ - दोङः क्डित्यशिति स्वरे परे दीयादेशो भवति । उपदिदीये, उपदिदीयाते, उपदिदीयिरे, उपदिदीयिध्वे, उपदिदीयिढवे, उपदिदीयानः । दीडो ङित्करणं यङ्लुपनिवृत्यर्थम्उपदेधितः । विडतीति किम् ? उपदानम् । स्वर इति किम् ? उपदेदीयते । परोक्षायामिति सिद्धे क्ङिति स्वरे इत्युत्तरार्थम् ॥१३॥
इडेत्पुसि चातो लुक् ॥ ४. ३. १४ ॥