________________
¿
पाद - ३, सूत्र - ८४-८८ ]
श्री सिद्धहेमचन्द्रशब्दानुशासने चर्थोऽध्यायः
[ १६३
न्या० स०-णेरनिटि - अनः सिद्ध इति - अन्यथाऽनेकस्वरत्वात् 'निन्दहिंस' ५-२-६८ इति णक एव स्यात् ।
सेटूक्तयोः ॥ ४. ३.
८४ ॥
सेट्कयोः क्तयोः परतो लुंग् भवति कारितः, कारितवान्, हारितः, हारितवान्, गणितः संज्ञपितः पशुः । सेडिति किमर्थम् ? इटि कृते लोपो यथा स्यात् । शाकित:, शाकितवान् । अन्यथेह इट् न स्यात् ॥ ८४ ॥
न्या० स०10- सेट्क्तयो:- इट् न स्यादिति - एकस्वरत्वात् 'एकस्वरादनुस्वार' ४-४-५६ इति इनिषेधात् न च वाच्यमेकस्वराद् विहिताभावादेवे हे निषेधो न भविष्यति किमर्थमिदमुक्तमिति, यतो विषय एव णिलोपापेक्षयेदं द्रष्टव्यम् ।
आमन्ताल्वाय्येनावय् ॥ ४. ३. ८५ ॥
आम्, अन्त, आलु, आय्य, इत्नुप्रत्ययेषु परेषु णेरयादेशो भवति । लुकोऽपवादः । कारयांचकार, गणयांचकार, गण्डयन्तः, मण्डयन्तः, स्पृहयालुः, गृहयालुः, स्पृहयाय्य:, महयाय्यः, स्तनयित्नुः, गदयित्नुः, अन्ताय्येत्नव श्रौणादिकाः || ८५ ॥
लघोर्यपि । ४. ३. ८६ 11
लघोः परस्य णेर्यपि परेऽयादेशो भवति । प्रशमय्य, प्रवेभिदय्य । लघोरिति किम् ? प्रतिपाद्य गतः । वचनसामर्थ्यादेकेन वर्णेन व्यवधानमाश्रीयते न तु भूतपूर्वन्यायः अत इत्यकरणात् ।। ६६ ।।
न्या० स० - लघोर्यपि प्रबेभिदय्येति- प्रबेभिद्यमानं प्रयुक्ते यङन्ताण्णिग् न यङलुबन्तात् । ‘अत:' ४-३ - ८२ इत्यलोपे 'यो शिति' ४-३-८० यलुप् अस्य स्थानित्वाद्गुणाभावः, प्रबेभिदनं पूर्वं यङ लुबन्ताद्धि णिगि गुणः स्यात्, 'न वृद्धिश्च' ४-३ - ११ इति न यङः पूर्वं लोपाद् भूतपूर्वन्याय इति । ननु वचनादेकवर्णव्यवधानं तदाश्रीयते यदा व्यवहितो न संभवति, अत्र तु चुराद्यदन्तेषु प्रबेभिदय्येत्यत्र यङोऽकारलोपे च भूतपूर्व - व्यवहितोऽपि संभवतीत्याह श्रत इत्यकरणादिति ।
वाप्नोः
: ।। ४. ३ ८७ ॥
आप्नोतेः परस्य णेर्यपि परेऽयादेशो वा भवति । प्रापय्य गतः प्राप्य गतः । श्नुनिर्देशादिङादेशस्य न भवति, अध्याप्य गतः, 'आप्लृ ण् लम्भने' इत्यस्यापीच्छन्त्यन्ये ॥ ८७ ।।
मेङो वामित् ॥ ४. ३, ८८ ॥
मेो यपि परे मिदादेशो वा भवति । अपमित्य, अपमाय ॥६६॥