________________
बृहद्वृत्ति- लघुन्यास संवलिते
[ पाद - ३, सूत्र - ६२-६४
ऊर्णादिस्योः परयोरौनं भवति । पृथग्योगात् पूर्वेणापि प्राप्तः प्रतिषिध्यते । - प्रौर्णोत्, प्रौर्णोः । दिस्योरिति किम् ? प्रोणति, प्रोणोषि । दिसाहचर्याद् ह्यस्तन्या एव सिः ।। ६१ ।।
१५६ ]
न्या० स०-न दिस्योः - पृथग्योगादिति - अन्यथा वोर्णोरदिस्योरिति सूत्रं क्रियेत । पूर्वेणापीति - 'उत औ: ' ४-३ - ५९ इत्यनेत्यर्थः । दिसाहर्यादित - प्राप्तिपूर्वको हि प्रतिषेधः प्राप्तिश्च 'वोर्णो:' ४-३-६० इत्यनेन ।
विति प्रत्यये इति - दिस्तावत् ह्यस्तन्या एव तत्साहचर्यात् सिरपि ह्यस्तन्या एव न तु वर्त्तमानायाः ।
तृहः श्नादीत् ॥ ४. ३. ६२ ॥
तृहः श्नात्परो व्यञ्जनादौ विति प्रत्यये परे ईद ईकारो भवति ।
तृणेटि, तृणेक्षि, तृणेह्मि, तृणेदु । प्रतृणेडित्यत्र व्यञ्जनादौ प्रत्ययेऽस्य विधानात् प्रत्ययाश्रयत्वमेव न वर्णाश्रयत्वम् वर्णस्य प्रत्यय विशेषणत्वादिति प्रत्ययलोपे प्रत्ययलक्षणं भवत्येव आद्यन्तवद्भावाच्च व्यञ्जनादित्वम् । व्यञ्जनादावित्येव, तृणहानि, अतृणहम् । वितीत्येव तृण्ढः, दीर्घनिर्देश उत्तरार्थः ।। ६२ ।।
ब्रूतः परादिः ॥ ४. ३. ६३॥
ब्रवत् ब्रूत् ब्रतेककारात्परो व्यञ्जनादौ विति प्रत्यये परे ईद्भवति, स च परादिः परावयवः । ब्रवीति, ब्रवीषि, ब्रवीमि अब्रवीत् ।
ऊत इति किम् ? आत्थ । व्यञ्जनादावित्येव-ब्रवाणि, अब्रवम् । वितीत्येव - व्रतः ।। ६३ ।।
न्या० स०- ब्रतः ० - ब्रवीतीति-अत्र वचादेशो न ईतः परावयवत्वे शित्त्वात् न तु तहि ब्रूतः शिदिति क्रियतां किं गुरुणा सूत्रेण ? नैवं, एवं कृते ब्रवीतीत्यत्र गुणो न स्यात् । हि विदिति क्रियताम् ? न, एवमपि कृते जंगमीति- जाज्ञेति इत्यादौ ' गमिषद्यमश्छ: ' ४-२-१०६ 'जा ज्ञाजनोऽत्यादी' ४-२-१०४ इत्याभ्यां छ: जादेशश्च स्यात्, अत्यादेः सद्भावात् परादित्वे तु परभक्तत्वेन त्यादेरानन्तर्यान्न भवति ।
यङ्तुरुस्तोर्बहुलम् ।। ४. ३. ६४॥
यङ्लुबन्तात् तु रुस्तु इत्येतेभ्यश्च धातुभ्यः परो व्यञ्जनादौ विति प्रत्यये परे ईद्भवति, 'बहुलम्' शिष्टप्रयोगानुसारेण स च परादिः क्वचिद्विकल्पः ।
बोभवीति, बोभोति ननृ तीति, नर्नीत, लालपीति, लालप्ति । क्वचिन्न भवतिवत, चर्कम । अन्ये तु वावदीति लालपीति रोरवीतीति नित्यं - बोभोति, बोभवीति, सोषति, सोषवीति, चर्कत, चर्करीति इति विकल्पः, नर्नति, वर्वति वर्षाष्टि इत्यत्र न