________________
१५४ ]
बृहद्वृत्ति-लघु याससंवलिते
[पाद-३, सूत्र-५३-५६
जजागार । जिरणवीति किम् ? जागरयति, जागरकः, साधुजागरी जागरंजागरम् , जागरो वर्तते । पूर्वेणैव सिद्धे नियमार्थो योगः ॥५२॥
न्या० स०-जागुजि०-नियमार्थो योग इति-विपरीतनियमस्तु न भवति, अन्त्यणवो वाणित्त्वनिषेधात् , 'न जनबधः' ४-३-५४ इत्यादौ नित्प्रत्यये वृद्धिनिषेधाच्च ।
आत ऐकू जौ ४. ३. ५३ ॥ आकारान्तस्य धातोणिति कृति प्रत्यये औ च परे ऐकारो भवति ।
दायः, धाय , दायकः, धायकः, शतं दायी, गोदायो व्रजति, अदायि, अधायि, दायिप्यते । धायिष्यते । कृग्रहणं किम् ? ददौ, दापयति ॥ ५३ ।।
न जनबधः॥ ४. ३. ५४ ॥
जनबध्यो: कृति जिणिति औ परे वृद्धिर्न भवति । प्रजन:, प्रजन्यः, जनकः, प्रजनि, बधः, बध्यः, बधकः, अवधि । बधिरत्र बध बन्धने इत्ययं गृह्यते यस्य बीमत्सत इति वरूप्य एव सनिष्यते, अन्यत्र बधते । भक्षकश्चेन्नास्ति बधकोऽपि न विद्यते । हन्यादेशस्य तु अधेरवन्तत्वावृद्धेरप्रसङ्ग एव, अन्ये त्वगणपठितं बधि हिसार्थ 'यत्र शालमतीकाश: कर्णोऽवध्यत संयुगे' इत्यादिदर्शनान्मन्यन्ते । प्रत्युदाहरन्ति च ववाध ॥ ५४॥
न्या० स०-न जनवधः-वधि हिसार्थमिति-एषामर्थान्तरेऽपि त्यादयो नाभिधीयन्त इति अङ्गीकुर्वाणाः परस्मैपदिनश्च एतस्यानियमस्त्यादीन्प्रति । ववाधेति-अत्र ञ्णित्कृदऽभावावृद्धेर्भावः।
मोऽकमि-यमि-रमि-नमि-गमि-वमाचमः ॥ ४. ३. ५५ ॥ मान्तस्य धातोः कम्यादिवजितस्य णिति कृत्प्रत्यये औच परे वृद्धिर्न भवति ।
शमः, तमः, दमः, शमकः, तमकः, दमकः, शमी, तमी, दमी, प्रशमि, प्रतमि, प्रदमि। म इति किम् ? पाठः, पाठकः, अपाठि । कम्यादिवर्जनं किम् ? कामः, कामुकः, प्रकामि, यामः, यामकः, अयामि, रामः, रामकः, अरामि, नामः, नामकः, अनामि, प्रागामुकः, आगामि, वामः वामकः, प्रवामि, प्राचामः, प्राचामकः, आचामि ।
प्राचम इति किम् ? चमः, विचमः, चमकः, विचमकः, अचमि, व्यचमि । अन्ये तु सामान्येन निषेधमिच्छन्ति-चामः, विचामः इत्यादि । कथमामः आमक: आमि? 'प्रमण रोगे' इत्यस्य भविष्यति । भौवादिकस्य त्वमे:-अमः अमकः । कृञावित्येव,शशाम, तमाम, निशामयते ॥ ५५॥
न्या० स०-मोऽकमि०-रामक इति-बाहुलकात् 'रम्यादिभ्यः' ५-३-१२६ इत्यनट् न । विश्रमे ॥ ४. ३. ५६ ॥