________________
पाद - ३, सूत्र -५० -५२ ]
अवमीत्, अस्यमीत्, यान्त-अव्ययीत्, अहयीत्, एदित्- अकगीत्, अरगीत्, प्रकखीत् । व्यादीनां यङ्लुबन्तानामपि प्रतिषेधः । अशेश्वयीत्, अजर्जागरीत् । केचिज्जागर्तेरपि यङमिच्छन्ति । श्रशाशसीत्, अचङ्क्षणीत् । श्रचाचहीत्, अजर्गर्होत, असंस्यमीत्, अवाव्ययीत् । एदितां तु यङ्लुपिन प्रतिषेधः । अजाहासीत्, अजाहसीत् । श्रत एव व्यादयो नैदितः क्रियन्ते, अन्यथा ह्ये दितः कृत्वा इह व्यादिग्रहणं न क्रियेत ।
श्री सिद्ध हेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः [ १५३
सेटीत्येव - अधाक्षीत् । वकारान्तस्यापि प्रतिषेधमिच्छत्यन्यः । श्रमवीत् । श्विजाग्रो: 'सिचि परस्मै समानस्याङिति' ( ३-३-४४ ) इति वृद्धावन्येषां च 'व्यञ्जनादेवपान्त्यस्यात.' (४- ३ - ४७ ) इति विकल्पे प्राप्ते वचनम् ।। ४९ ।।
न्या० स०- न श्वि जागृ० - अचाचहीदिति - अजर्गर्होदिति - अजर्गहिदिति भग्नं तत्र वृति गुणे उपान्त्यस्याऽकाराऽसंभवात् ।
असंस्थमीदिति - परमताभिप्रायेणेदं स्वमते तु 'वेः स्यम:' इति य्वृत्य से सेमीदिति
भवति ।
णिति ।। ४. ३.५० ॥
ञिति णिति च प्रत्यये परे धातोरुपान्त्यस्यातो वृद्धिर्भवति । प्रपाचि, पाकः, पाचकः, पपाच, पाचयति । अत इत्येव - भोगः, भोजयति । उपान्त्यस्येत्येव, - भङ्गः, भञ्जकः, चकासयति । णितीति किम् ? पचति ।। ५० ।।
नामिनोऽकलिहलेः ४ ३.५१ ॥
नाम्यन्तस्य धातोर्नाम्नो वा कलिहलिर्वाजितस्य ञ्णिति प्रत्यये परे वृद्धिर्भवति । प्रचायि नायि, अयावि, अलावि, अकारि, अतारि, कारः, हार:, चिकाय, कारकः । कलिह लिवर्जनान्नाम्नोऽपि । तेन पटुमाख्यातवान् अपोपटत्, श्रलीलघत् इत्यत्र वृद्धावन्त्यस्वरादिलोपे चासमानलोपित्वात् सन्वद्भावः सिद्धो भवति । कलिह लिवर्जनं किम् ? कल, हलवाग्रहीत् श्रचकलत् प्रजहलत् । श्रन्ये तु नाम्नो वृद्धिमनिच्छन्तोऽन्त्यस्वरस्योकारस्यैव णिचि लोपमिच्छन्तः समानलोपित्वात्सन्वद्भावप्रतिषेधऽपपटत् अललघदित्येवाहुः ।। ५१॥
"
न्या० स०-नामिनोऽक - अपीपटदित्यादिसिध्यर्थं सूत्रं सूत्रितं, अन्यथा 'नामिनः ' ४- ३ - ५१ इति गुणे अयवादेशे च कृते 'ञ्णिति' ४-३ - ५० इति वृद्धौ सर्वाण्यपि सिध्यन्ति, ननु 'नामिनो गुण:' ४-३ - १ इत्यत्र कलिहलिवर्जनं क्रियतां तद्वर्जनाच्च नाम्नोऽपि गुणेऽपीदित्यादीन्यपि सेत्स्यन्ति किमनेन ? सत्यं, कलिहलिवर्जनान्नाम्नोऽपि स्यात्ततश्च सख्येत्यादावपि गुणप्रसङ्ग ।
जागुणिवि ॥ ४, ३. ५२ ॥
जागते व्येव पि प्रत्यये परे वृद्धिर्भवति । अजागारि, जागारिष्यते,