________________
१५२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[ पाद-३, सूत्र-४६-४९
क्षीत , अमेत्सीत् , अरौत्सीत् , अतासीत् । बहुवचनं जात्यर्थम् । तेनानेकव्यञ्जनव्यवधानेऽपि भवति। रन्ज-अराङ्क्षीत् , सञ्ज,-असाङ्क्षीत , भञ्ज-अमाङ्क्षीत् , तक्षौअताक्षीत , ल्वक्षौ-अत्याक्षीत् , औदित्त्वाद्वेटो । समानस्येत्येव,-उदवोढाम् । अनिटीति किम् ? प्रतक्षीत् , अत्वक्षीत् , अदेवीत् , प्रकोषील , अनीत् ॥ ४५ ॥
न्या० स०-व्यञ्जना०-अताक्षीदिति-तक्षौ अद्यतनीदि सिच् ईत् 'संयोगस्यादौ २-१-८८ इति कलुकि 'षढोः कस्सि' २-१-६२ इति षस्य कत्वे सिचः षत्वेऽटि च रूपम् ।
उदवोढामिति-पूर्ववृद्धौ एकदेशेति न्यायाद् वहेरोत्वं, ततो भूतपूर्वगत्या ढस्य परेऽसत्त्वाद् वा व्यञ्जनान्तत्वे पुनरप्योकारस्य वृद्धिः प्राप्नोति ।
वोर्णगः सेटि ॥ ४. ३. ४६ ॥
ऊर्णोतेः सेटि सिचि परस्मैपदविषये परे वृद्धिर्वा भवति । प्रोर्णावीत् , पक्षे. प्रोणवीत् , प्रौर्णवीत् । परस्मै इत्येव,-प्रौर्णविष्ट । सानुबन्धोपादानं यङ्लुपनिवृत्त्यर्थम् । प्रौर्णोनावीत् । अडिस्वपशे पूर्वेण नित्यं वृद्धिः । डिस्वे तु प्रौर्णोनुवीत् । 'वोर्णोः' । ४-३-१९) इत्यत्र हि अनुबन्धाभावाद्यङ्लुबन्तस्यापि ग्रहणम् , एवं च प्रकृतेस्त्ररूप्य यङ्लुबन्तस्य च द्वेरूप्यं सिद्धं भवति । सेटीत्युत्तरार्थम् ।। ४६ ।।
न्या० स०-वोर्तुग०:-प्रकृतेस्त्ररूप्यमिति-शुद्धघातो रूपत्रयमित्यर्थः । व्यञ्जनादेोपान्त्यस्यातः ॥ ४. ३. ४७ ॥
व्यञ्जनादेर्धातोरुपान्त्यस्यातः सेटि सिचि परस्मैपदविषये परे वृद्धि भवति । काणीत् , अकर्णात् , अक्वाणीत् , अक्षणीत् , अश्वासीत , अश्वसीत् , गौरिवाचारीत् अमावीत् , अगवीत्।
व्यञ्जनादेरिति किम् ? मा मवानटीद, मा भवानशीत । उपान्त्यस्येति किम् ? अरक्षीत् , पिपठिषीत् , अवधीत् । प्रल इति किम् ? अदेवीत् । सेठीत्येव, प्रधाक्षीत् ।।७।।
वदबजलः॥ ४. ३.४८॥
वदव्रजोर्लकारान्तानां रेफान्तानां च धातूनामुपान्त्यस्याकारस्य परस्मैपदविषये लेटि सिचि परे वृद्धिर्भवति । प्रवादीत् , अवाजीत , अज्वालीत् , अचालीत् , अक्षारीत् , त्सर-अत्सारीत् । उपान्त्यस्येत्येव,-अश्वल्लीत् , अवनीत् । अत इत्येव,-न्यमीलीत. , न्यखोरीत् । पूर्वस्यापवादोश्यम् ।। ४८ ।।
ना शिव-जागृ-शस्-क्षण-ह म्येदितः ॥ ४. ३. ४१ ॥
शिवजागशस्क्षणां हकारमकारयकारान्तानामेदितां च धातूनां परस्मैपदविषये सेटि मिलि परे वृद्धिर्न भवति । शिव-प्रश्वयीत् , जागृ,-अजागरीत् , शस् ,-प्रशसीत् । शसः स्थाने श्वसं पठन्त्यन्ये-अश्वसीत् , क्षण,-प्रक्षणीत्, हान्त-अग्रहीत् अचहीत् । मान्त,