________________
१४२ ]
बृहवृत्ति-लघुन्याससंवलिते
[पाद-३, सूत्र-९-१०
अकीति किम् ? संचस्कृवान् , संचस्काणः, आनच्छवान् , विचिकीर्वान् , वितितीनि , विततिराणः, विशिशीर्वान् , विशशिराणः, निपुपूर्वान् , निपपुराणः । काने पूर्व द्वित्वम् पश्चादिरादि: स्वरविधित्वात् ॥ ८॥
न्या० स०-स्कच्छतो०-परिग्रहार्थमिति-तेन संस्क्रियते,संचेस्क्रीयते, संस्क्रियात् इत्यादौ क्यङाशीर्य' ४-३-१० इति गुणो न भवति । संयोगाहतः' ४-४-३७ इति इट् न विकल्पेन । विततिराण इति-व्यतिहारे कर्मण्यात्मनेपदम् । विशशिराण इति-विशशरे 'ऋः शप्रः' ४-४-२० इत्यनेन नवा ऋत्वे विशश्रे इति वा वाक्ये 'तत्र क्वसु' ५-२-२ इति कान प्रत्ययः, एवं निपपुराण इत्यत्रापि निपप्रे निपपरे वेति वाक्यम् ।
संयोगादर्तेः ॥ ४. ३.१ ॥
संयोगात्परो य ऋकारस्तदन्तस्य धातोरर्तेश्च परोक्षायां परतो गुणो भवति, अकि । सस्मरतुः, सस्मरुः, सस्वरतुः, सस्वरुः, दद्वरतुः, दद्वरुः, दध्वरतुः, दध्वरः, ह.,-जह्वरतुः, जह्वरुः, अतिः, आरतुः प्रारुः ।
संयोगादिति किम् ? चक्रतुः, चक्रुः । ऋदर्तरिति किम् ? चिक्षियतुः, चिक्षियुः । गुणप्रतिषेधविषये पुनःप्रसवार्थ वचनम् , वृद्धिस्तु भवत्येव ? सस्मार, सस्वार, ऋतः संयोगेन विशेषणादतिग्रहणम् । तिनिर्देश उत्तरार्थः ।। ९ ।।
न्या० स०-संयोगा०-आरतुरिति-'इवर्णादेः' १-२-२१ इति रत्वेनापि सिध्यति परमन्तरङ्गत्वात् 'अवर्णस्येवर्णादिना' १-२-६ इति । द्वित्वाकारस्याग्रेतनऋकारेण सह रत्वबाधकोऽरादेशो माभूदित्यत्तिग्रहणमुत्तरार्थं च, अथ अरादेशेऽपि 'अस्यादेराः' ४-१-६८ इत्यात्वे सेत्स्यति, तदपि न, यतो द्विवंचने पूर्वाकारस्य 'अस्यादेः' ४-१-६८ इत्यात्वमऽभाणि आरिवानित्यत्र त्वन्तरङ्गत्वानाश्रयणात् रत्वमेव ।
उत्तरार्थ इति-इह यङलुबन्तस्यार्तेरनेकस्वरत्वात् परोक्षायामामि सति 'वेत्तेः कित्' ३-४-५१ इति सूत्रादामि परोक्षाकार्याऽभावान्न यङ लुब्निवृत्त्यर्थमिति वाच्यं, तत्रामभावादामि च सिद्ध एव गुणो यथा अरराञ्चकार अरियराञ्चकारेति ।
क्ययङाशीयें ॥ ४. ३. १०॥
संयोगात्परो य ऋकारस्तदन्तस्य धातोरर्तेश्च क्ये यडि प्राशीःसंबन्धिनि ये च प्रत्यये गुणो भवति । स्मर्यते, स्वर्यते, अर्यते, सास्मयते, सास्वर्यते, अरायते, स्मर्यात् , स्वर्यात, अर्यात् ।
- औपदेशिकसंयोगग्रहणादिह न भवति-संस्क्रियते, संचेस्नीयते, संस्क्रियात् । ऋत इत्येव,-प्रास्तीर्यते, आतेस्तीर्यते, प्रास्तीर्यात् । आशीर्य इति किम् ? स्मषीष्ट, समषीष्ट । अर्तेरिति तिन्निर्देशाद्यङ्लुपि न भवति । प्रारियात् , अग्नियात् ॥ १०॥
__ न्या. स०-क्यङा०-संस्क्रियत इति-कस्यादिरिति व्याख्यानेऽनुस्वारस्य व्यञ्जनत्वात् 'धटो धुटि' १-३-४८ इत्येकस्य सस्य वा लुक् । प्रारियादिति यङ लुपि द्वित्वे 'रिरौच' ४-१-५६ इति रागमे क्याति 'रिः शक्याशीर्ये' ४-३-११० इति घातो रिः, 'रो रे लुक्'