SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ पाद-३, सूत्र-५-८] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्याय: [१४१ उपान्त्यस्येति किम् ? भिनत्ति, रुणद्धि, तृणत्ति, छुत्ति । अक्तिीत्येव,-भिन्नः, भिन्नवान् , बेभिद्यते, मरीमज्यते ॥४॥ न्या० स०-लघो०-ननु 'नामिनो गुण' ४-३-१ इत्यनेनान्त्यविधानसामर्थ्यादनेनोपान्त्यस्यैव भविष्यति किमुपान्त्यग्रहणेन ?, न च वाच्यं पूर्वेणाक्छिति गुणोऽनेन तु क्ङित्यपि गुणो भवत्वेतदर्थं, 'जागुः किति' ४-३-६ 'ऋवर्णदृश' ४-३-७ इति सूत्रद्वयकरणात् ? न, लघोरिति सति जागर्तेः कित्येव गुण इति विपरीतनियमाशङ्का स्यात् , अनामिनो वा गुणः स्यात् इति संदेहनिरासार्थमुपान्त्यग्रहणम् । मिदः श्ये॥ ४. ३. ५ ॥ मिदेरुपान्त्यस्य श्ये परे गुणो भवति । मेद्यति, मेद्यतः, मेद्यन्ति ॥५॥ जागुः किति ॥ ४. ३.६ ॥ जागतः किति प्रत्यये परे गुणो भवति । जागरितः, जागरितवान् , जागर्यते, जागर्यात् । क्वौ-जागः जजागरतुः, जजागरुः । कितीति किम् ? जागृतः, जाप्रति, जाग्रत् , जागयात, जागृविः । इह कस्मान्न भवति जजागृवानिति ? जागर्तेः क्वसुरनभिधानाद्भाषायां नास्तीत्येके । गुणमेवेच्छन्त्येके-जजागर्वान् । अपरे तु क्वसुकानयोर्गुणप्रतिषेधमेवाहु:जजागवान , व्यतिजजाग्राणः । विङति प्रतिषेधे प्राप्ते वचनम् । अक्डिति तु पूर्वेणैव गुणः,जागरिता ॥६॥ न्या० स०-जागुः किति-जजागृवानितीति-एके सर्वथापीदं न मन्यन्तेऽतः परमतेन दर्शितम् । ऋवर्णदृशोऽङि ॥ ४. ३, ७॥ ऋवर्णान्तानां धातूनां दृशश्चाङि प्रत्यये परे गुणो भवति ।मा भवानरत , असरत् , असरताम् , अजरत् , अजरताम् , अदर्शत् , अदर्शताम् ॥ ७ ॥ स्कच्छतोऽकि परोक्षायाम् ॥ ४. ३. ८ ॥ स्कृ ऋछ इत्येतयोऋकारान्तानां च धातूनां नामिनः परोक्षायां परतो गुणो भवति, अकि ककारोपलक्षितायां क्वसुकानरूपायां न भवति । स्कृ,-संचस्करतुः, संचस्करः, ऋछ-आनर्छ, आनईतुः, आनछुः । ऋत, कृ,विचकरतुः, विचकरुः, तृ-तेरतुः, तेरुः, शृ-विशशरतुः, विशशरुः, दृ-विददरतुः, विददरुः । पृ,-निपपरतुः, निपपरुः । स्कृ इति कृगः सस्सट उपादानादिह न भवति,-चक्रतुः, चक्रुः । उत्तरेणैव सिद्धे स्कृग्रहणमुत्तरत्रौपदेशिकसंयोगपरिग्रहार्थम् । विचकार निजगारेत्यादौ परत्वावृद्धिरेव।
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy