________________
अथ तृतीयः पादः
नामिनो गुणोऽक्ङिति ॥ ४. ३. १ ॥
नाम्यन्तस्य धातोः किङित्वजिते प्रत्यये परे आसन्नो गुणो भवति । चेता, नेता, स्तोता, लविता, कर्ता, तरिता, जयति, नयति, जुहोति, भवति, बिर्भात, तरति करोति, एता एतीत्याद्यन्तवद्भावात् ।
नामिन इति किम् ? उम्भिता, याति, ग्लायति म्लायतीति ऐकारोपदेशबलान्न गुणः । नीभ्याम्, लुभ्यामिति गौणत्वात् । श्रक्ङितीति किम् ? चितः, चितवान्, अशिश्रियत्, अदुद्रुवत् लिल्ये लुलुवे इतः, युतः ॥ १॥
,
न्या० स०-नामिनो गु० - कर्त्तेति निद्दिश्यमानत्वात् ऋकारस्येवादेशो न त्वनेकवर्णः सर्वस्य । ऐकारोपदेशबलादिति यद्वा गुण इति सान्वयसंज्ञेयं तेन हानिरेव न गुण उत्कर्षरूप इति तथा नौरिवाचरति नावति, नाव इवाचरणं नावा इत्यादी न गुणः । गौणत्वादिति नामार्थ संवलितधात्वर्थाभिघायित्वेन ।
उश्नोः॥ ४. ३. २ ॥
धातोः परयोरुश्नु इत्येतयोः प्रत्यययोरक्ङिति प्रत्यये परे गुणो भवति । तनोति, करोति, समर्णोति, तर्णोति, घर्णोति । धातोस्तु पूर्वेणोत्तरेण च गुणः । श्नु - सुनोति, सिनोति । अक्ङितीत्येव - कुरुतः, सुनुतः ।। २ ।।
पुस्पौ ॥ ४, ३. ३ ॥
नाम्यन्तस्य धातो पुसि पौ च परे गुणो भवति । अबिभयुः, अजुहवुः, अबिभरुः, ऐयरुः, j अजागरु: । पु- अर्पयति, रेपयति, ब्लेपयति, हे पयति, क्नोपयति । नाम्यन्तस्येत्येव, - अनेनिजुः, क्ष्मापर्यात, दापयति ॥ ३ ॥
न्या० स० पुस्पौ - नन्वत्र पुग्रहणं किमर्थं 'अत्तिरीवली' ४-२ - २१ इत्यत्र पोरागमत्वमपनीय प्रत्ययत्वे कृते 'नामिनो गुणः ' ४-३ - १ इत्यनेनैव गुण : सेत्स्यति, आगमत्वे तु पोर्धातुग्रहणेन ग्रहणात् अर्पयतीत्यत्रैव गुणः सिध्यति, रेपयतीत्यादौ तु गुरूपान्त्यत्वान्न सिद्ध्यति, प्रत्ययत्वे तु पोः सर्वत्र सिध्यति ? सत्यं - पोः प्रत्ययत्वे कृतेऽरीरिपत् अदीदपदित्यादावुपान्त्यत्वाभावात् 'उपान्त्यस्यासमानलोपि' ४ - २ - ३५ इत्यनेन ह्रस्वत्वं न स्यादिति ।
लघोरुपान्त्यस्य ॥ ४. ३. ४ ॥
धातोरुपान्त्यस्य नामिनो लघोरक्ङिति प्रत्यये परे गुणो भवति । भेत्ता, गोप्ता, वर्तिता, मेदनम्, गोपनम् वर्तनम् वेत्ति, दोग्धि नर्गत । लघोरिति किम् ? ईहते, ऊहते ।
1