________________
[ १३३
पाद - २, सूत्र - ९३-६७ ] श्री सिद्ध हेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
न्या० स० सिविदोऽभुवः - सिचः प्रत्ययादिति - भूवर्जनेन सिच् प्रत्ययो लभ्यते, अन्यथा षिचीत् इत्यस्य ग्रहणं स्यात्, अन: स्थाने इत्यधिकारेऽपि सिजित्युक्तेरद्यतन्या अन् लभ्यते, विदस्तु शिदेव अद्यतन्यां तु सिज् द्वारा अवेदिषुरिति ।
कश्चिदिति तन्मते पूर्वसूत्रे विद्ग्रहणं ज्ञेयम् । श्रभूवन्निति यदा यङ् लुबन्तस्तदापि * प्रकृतिग्रहणे इति न्यायात् पुस् न भवति, नाप्युत्तरेण शितोऽभावात्ततोऽबोभूवन्निति
भवति ।
व्युक्त-जक्षपञ्चतः ॥ ४. २. १३ ॥
,
द्वे उक्ते यस्य व्युक्तः, पञ्चानां वर्गः पञ्चत् जक्षाणां पञ्चत् जक्षपञ्चत्, द्व्युक्ताद्धातोर्जक्षपञ्चतश्च परस्य शितोऽवितोऽन: स्थाने पुसादेशो भवति । अजुहवुः, अविभयुः, अददुः, अनेनिजुः । भुवो यङ्लुपि अबोभवुः । जक्षादि श्रजक्षुः, अदरिदु:, अजागरुः, श्रचकासुः, प्रशासुः ।। ९३ ।।
अन्तो नो लुक् ॥ ४. २. १४॥
द्व्युक्तजक्षपञ्चतः परस्य शितोऽवितोऽन्तः संबन्धिनो नकारस्य लुग्भवति ।
1
जुह्वति, जुह्वतु, जुह्वत, जुह्वतौ, जुह्वतः, जुह्वतम् ददति ददतु, ददत्, ददती स्त्री कुले वा, जक्षति, जक्षतु, जक्षत् दरिद्रति, दरिद्रतु, दरिद्रत्, दरिद्रती स्त्री कुले वा, जाग्रति जाग्रतु, जाग्रत्, चकासति, चकासतु, चकासत्, शासति, शासतु, शासत् ॥ ६४ ॥
न्या० स० - अन्तो नो लुक् ददती स्त्री कुले वेति - ' अवर्णादश्न : ' २-१-११५ इत्यन्तादेशे न लुक् । जुह्वती इति तु नात्र ज्ञेयं नकारासंभवात् ददती इत्यादौ तु भूतपूर्वकत्वेन स्थानित्वेन वाऽवर्णान्तत्वे संभवः ।
शौ वा ॥ ४.
द्व्युक्तजक्षपश्वतः परस्यान्तो नकारस्य शिप्रत्यये वा लुग् भवति । ददति, ददन्ति, जक्षति, जक्षन्ति, दरिद्रति, दरिद्रन्ति, जाग्रति जाग्रन्ति, चकासति, चकासन्ति, शासति, शान्ति, कुलानि शाविति किम् ? ददती दधती कुले ||१५||
२. १५ ॥
`श्नश्चातः । ४. २. १६ ॥
द्व्युक्तजक्षपश्वतः श्नाप्रत्ययस्य च संबन्धिनः शित्यविति प्रत्यये परे आकारस्य लुग्भवति । मिमते, मिमताम्, अभिमत, संजिहते, संजिहताम्, समजिहत, यायति, यायतु, दरिद्रति, दरिद्रतु । श्ना - क्रीणन्ति, क्रीणन्तु, अक्रीणन्, लुनते, लुनताम्, अलुनत, पुनते, पुनताम्, अपुनत | इनश्चेति किम् ? यान्ति, वान्ति । आत इति किम् ? बिभ्रति, जक्षति | अवितीत्येव अजहाम्, अक्रीणाम् ||६|
एषामीर्व्यञ्जनेऽदः ।। ४. २. १७॥