________________
१३४ ]
बृहद्वृत्ति लघुन्याससंवलिते
[पाद-२, सूत्र-९८-१०१
एषां व्युक्तजक्षपञ्चतश्नाप्रत्ययानामाकारस्य शित्यविति व्यञ्जनादौ परत ईकारो। भवति, दासंज्ञं वर्जयित्वा
मिमीते, मिमीताम् , अमिमीत, दाव्दैवोर्यङ्लुपि दादीतः । दादीथः, लुनीतः लुनीहि, लुनीयात् । व्यञ्जने इति किम् ? मिमते, लुनन्ति । अद इति किम् ? दत्तः, धत्तः, दद्वः, दमः, वध्वः, दध्मः, दद्यात् , दध्यात् । अवितीत्येव,-जहाति, लुनाति । शितीत्येव,संजिहासते ॥९७।।
इर्दरिद्रः॥ १. २. १८॥
दरिद्रतिळजनादौ शित्यविति प्रत्यये परे आकारस्येकारो भवति । दरिद्रितः, दरिद्रिथः, दरिद्रिथ, दरिद्रिवः, दरिद्रिमः, दरिद्रियात् । व्यञ्जन इत्येव,-दरिद्रति । शितीत्येव,-दिदरिद्रासति, अवितीत्येवं,-दरिद्राति ।।६८॥
भियो नवा ।। ४. २.११ ॥
बिभेतेयंजनादौ शित्यविति प्रत्यये परेऽन्तस्येकारो वा भवति । बिभितः, बिभीतः, बिभिथः, बिभीथः, बिभियात् , बिभीयात् , यङ्लुपि,-बेभितः, बेभीतः । व्यञ्जन इत्येव,-बिभ्यति, बिभ्यतु । शितीत्येव,-बिभीषति, बेभीयते । प्रवितीत्येव,-बिभेति, बिभेषि ॥६॥
हाकः ॥ ४. २. १००॥
जहातेयुक्तस्य व्यञ्जनादौ शित्यविति प्रत्यये परेऽन्तस्येकारो वा भवति । जहितः, जहीतः, जहिथः, जहीथः, जहिवः, जहीवः, जहिमः, जहीमः। व्यञ्जन इत्येव,जहति, जहतु । शितीत्येव,-जिहासति, जेहीयेते।
__ अवितीत्येव,-जहाति, जहासि । अनुबन्धनिर्देश ओहायङ्लुपोनिवृत्त्यर्थः । उज्जिहोते, संजिहीते, जहीतः । योगविभाग उत्तरार्थः ॥ १० ॥
न्या० स०-हाकः-व्युक्तस्येति-अत्र व्युक्ताधिकृति विना द्विवचनात् प्रागेव इवं स्यात् , यतो हल्निमित्तं ततश्च प्राक्तु स्वर इति नोदेति ।
आ च हौ ॥ ४. २. १०१ ॥
अवितीति निवृत्तम् , वितोऽसंभवात् , शितीति त्वनुवर्तते । व्युक्तस्य जहातेही परे आकार इकारश्च वा भवति । जहाहि, जहिहि, जहीहि ॥ १०१॥
न्या० स०-आ च हौ-हाक इति सूत्रे जहातिद्व्युक्तो गृह्यते, इह उत्तरत्र च स एवानुवर्त्यते ।
इकारश्चेति-चेत्यकृते तत्र कौण्डिन्यन्यायेन ईर्न स्यात् । .