________________
पाद-२, सूत्र-७८-८१ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[ १२९
-शुषि-पचो म-क-बम् ॥ ४. २. ७८ ॥
शुषिपचिभ्यः परस्य क्तयोस्तकारस्य यथासंख्यं मक व इत्येते आदेशा भवन्ति । क्षामः, क्षामवान् , शुष्कः, शुष्कवान् , पक्व., पक्ववान् । ७८ ।।
निर्वाणमवाते ॥ ४. २. ७१ ।।
निर्वाणमिति निरपूर्वाद्वाधातोः परस्य क्ततकारस्य नकारो निपात्यते, अवाते कर्तरि वातश्चेन्निर्वातिक्रियायाः कर्ता न भवति । निर्वाणो मुनिः, निर्वाणो दीपः ।
अवाते इति किम् ? निर्वातो वातः, नितिं वातेन भावेऽपि वात एव कर्ता, निर्वाणः प्रदीपो वातेनेत्यत्र तु प्रदीपः कर्ता । वातस्तु हेतुः करणं वेति प्रतिषेधो न भवति । केचित्तु निर्वाणं वातेनेतीच्छन्ति, तेषां वाते कर्तरि प्रत्यये सति प्रतिषेध इति द्रष्टव्यम् ।७९।
न्या० स०-निर्वाणमवाते-प्रवाते कर्तरीति-अकर्मकत्वात्कर्ता लभ्यते । कतरिप्रत्यये सतीति-अत्र तु भावे क्तः । अनुपसर्गाः क्षीबोल्लाघ-कृश-परिकश-फुल्लोत्फुल्ल-संफुल्लाः
॥४. २. ८०॥ अनुपसर्गाः क्तप्रत्ययान्ता एते शब्दा निपात्यन्ते । क्षीबृङ् मदे, उत्पूर्वो लाङ सामर्थ्य, कृशच् तनुत्वे केवलः परिपूर्वश्च, एभ्यः परस्य क्ततकारस्य लोप इडभावश्च निपात्यते।
क्षीबः, उल्लाघः, कृशः, परिकृशः, 'त्रिफला विशरणे' इत्यस्मात्केवलादुत्संपूर्वाच्च परस्य तस्य लादेशो भावारम्भविवक्षायामिडभावश्च निपात्यते । फुल्लः, उत्फुल्लः, संफुल्ल: । केचित्तु क्षोबवान् , उल्लाघवान् , कृशवान् , परिकृशवान् , फुल्लवान् , उत्फुल्लवान् , संफुल्लवान् इति क्तवतावपि रूपमिच्छन्ति तदर्थ क्तक्तवत्वोस्तशब्दावधि निपातनं द्रष्टव्यम् , एतदर्थमेव बहुवचनम् ।।
. अनुपसर्गा इति किम् ? प्रक्षीबितः, प्रोल्लाघितः, प्रकृशितः, संपरिकृशितः, प्रफुल्लः । निपातनस्येष्टविषयत्वात् फल निष्पत्तौ फलितः, फलितवान् । क्षीबादयः शब्दाः केनाचापि च सिध्यन्ति, क्षीबित इत्यादिरूपनिवृत्त्यर्थं तु वचनम् । कथं प्रक्षीबा ? प्रगत: क्षीबः इति ? प्रादिसमासाद्भविष्यति ।।८।।
न्या० स०-अनुपसर्गाः०-भावारम्भविवक्षायामिति-अयमर्थः, यदा भावारम्भाविवक्षा तदा 'आदितः' ४-४-७१ इति नित्यमिडऽभावः, यदा तु भावारम्भविवक्षा तदा 'नवा भावारम्भे' ४-४-७२ इति विकल्पेनेट् स्यात् निपातसामर्थ्याच्च नित्यं निषिध्यते ।
फलनिष्पत्ताविति - उपलक्षणत्वात् फल गतावित्यस्यापि ।
भित्तं शकलम् ।। ४. २. ८१ ॥