________________
१२८ ]
बृहवृत्ति लघुन्याससंवलिते
[पाद-२, सूत्र-७५-७७
कर्तरि-क्षीणः क्षीणवान् मैत्रः । अधिकरणे, ' मेषां क्षीणम्' । अध्यार्थ इति किम् ? क्षितमस्य' भावे क्तः-क्षिष्श् हिंसायामित्यस्य सानुबन्धत्वान्न ग्रहणम् , अन्यस्तु तस्यापि ग्रहणमिच्छति ।।७४।। .
वाक्रोशदैन्ये ॥ ४. २. ७५ ॥
प्राकोशे दैन्ये च गम्यमाने क्षेः परस्याध्यार्थे क्तयोस्तकारस्य वा नकारादेशो भवति, तत्संनियोगे च क्षी इत्ययमादेशो भवति ।
आक्रोशे क्षीणायुः क्षितायुर्वा जाल्मः, दैन्ये क्षीणकः, क्षितक: तपस्वी। अध्यार्थ इत्येव,-'क्षितं जाल्मस्य' क्षितं तपस्विनः । कश्चित्तु भावेऽपि विकल्पमिच्छति । क्षीणमनेन, क्षितमनेन-क्षेर्भावकर्मणो षायां क्त एव नास्तीति कश्चित् ॥ ७५ ।।
न्या० स०-वाक्रोशदन्ये-आक्रोशश्च दैन्यं चेति कृते विरोधिनामेव अद्रव्याणामेवेति समाहारा प्राप्तौ सूत्रत्वात् समाहारः, विशेषणसमासो वा ।
क्षितं जाल्मस्येति 'वा क्लीबे' २-२-९२ इति षष्ठी । भाषायामिति-लक्षणशास्त्रे न भवति, किन्तु छन्दस्येवेत्यर्थः । . ऋहीघ्राधात्रोन्दनुद विन्तेर्वा ।। ४. २. ७६ ॥
एभ्यः परस्य क्तयोस्तकारस्य नकारो वा भवति ।
ऋ.-ऋणम् , ऋतम् , ह्री,-ह्रीणः, ह्रीणवान् , ह्रीतः, ह्रीतवान् । घ्रा,-घ्राणः, घ्राणवान् , घ्रातः, घ्रातवान् । ध्रा, ध्राणः, धारणवान् , ध्रातः. भ्रातवान् । त्रा-बाणः, त्राणवान् , त्रातः, त्रातवान् । उन्द, समुन्नः समुन्नवान् , समुत्तः, समुत्तवान् । नु, नुन्नः, नन्नवान. नत्तः नत्तवान । विदिष विचारणे विन्नः, विन्नवान, वित्तः, वित्तवान । विदः श्ननिर्देशाद्विद्यतेविन्दतेश्च नित्यं नकारः । विन्नः. विन्नवान् । प्रथमाम्यामप्राप्ते घ्रादिभ्यस्तु प्राप्ते विकल्पः । तेन दकारान्तानां दस्यापि पूर्वेण नत्वं भवति । तकारनत्वाभावपक्षे च संनियोगशिष्टत्वाद्दस्यापि नकारो न भवति । व्यवस्थितविभाषेयम् , तेन ऋणमित्युत्तमर्णाधमर्णयोरेव । अन्यत्र ऋतं सत्यम् , त्रायतेस्तु संज्ञायां न भवति । त्रात:, देवत्रातः, अन्यत्र तु नत्वम,त्राणः, उभयमित्येके ।। ७६ ।।
न्या स०-ऋहीघ्राध्रा०-तेप्रत्ययान्तमाख्यातपदमनुक्रियते, 'इकिस्तित्' ५-३-१३८ इति श्तिवप्रत्ययान्तस्य तु न विनत्तीति रूपं स्यात् । देवत्रात इति-त्रासीष्ट देवता एनं त्रासीरनिति वा 'तिक्कृतौ नाम्नि' ५-१-७१ इति क्तः । उभयमित्येके इति-असंज्ञायां नत्वं नाऽभावश्च संज्ञायां तु नत्वाभाव एवेत्यर्थः ।
दुगोरू च ॥ ४. २. ७७॥ . .
दुगु इत्येताभ्यां परस्य क्तयोस्तकारस्य नकारादेशो भवति तत्संनियोगे च प्रनयोककारश्चान्तादेशो भवति । दूनः, दूनवान् , गूनः गूनवान् ।। ७७ ॥