________________
पाद-२, सूत्र-७१-७४ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः।
[१२७
ओ लजङ् प्रोलस्जति वा लग्नः, लग्नवान् , ओविजैति, उद्विग्नः, उद्विग्नवान् । भोप्यायङ् पीनः, पीनवान् , ट्वोश्वि-शूनः, शूनवान् , ओवश्वौव-वृषणः, वृक्णवान् । एम्य इति किम् ? पोतः, पीतवान्, सूयतीति श्यनिर्देशः सूतिसुवयोनिवृत्त्यर्थः ।।७।।
व्यञ्जनान्तस्थातोऽख्याध्यः ॥ ४. २.७१ ॥
ख्याध्यावजितस्य धातोर्यव्यञ्जनं तस्मात्परा याऽन्तस्या तस्याः परोय आकारस्तस्मात्परस्य क्तयोस्तकारस्य नो भवति।
स्त्यान:, स्त्यानवान् , निद्राणः, निद्राणवान् , ग्लानः ग्लानवान् । व्यञ्जनेति किम् ? यातः, यातवान् । अन्तस्थेति किम् ? स्नातः, स्नातवान् । प्रात इति किम् ? च्युतः च्युतवान् , द्रुतः, द्रुतवान् , प्लुतः, प्लुतवान् । धातुना व्यञ्जनस्य विशेषणादिह न भवति । निर्यातः, निर्यातवान् । द्विर्भावेष्यन्तस्थेत्यभेदाश्रयणाबहिरङ्गत्वेनासिद्धेश्च न भवति । अख्याध्य इति किम् ? ख्यातः, ख्यातवान् , ध्यातः, ध्यातवान् । प्रातः परस्येति किम् ? दरिद्रितः, दरिद्रितवान् ।।७१॥
न्या० स० व्यञ्जनान्तस्थातोऽख्याध्यः-ख्याश्च ध्याश्चेति कृते यदा क्लीबे बस्वस्तदा ङसोऽतः सूत्रत्वाल्लुप् । बहिरङ्गत्वेनेति-उपसर्गद्विपदाश्रयत्वाद् बहिरङ्ग यकारस्य द्वित्वं । आतः परस्येति किमिति-ननु आत इति किमित्यऽनयापि व्यावृत्त्या सिद्धं किमनया ? सत्यं, तत्राकारात् विहित एव नास्ति, अत्र त्वाकाराद्विहितः परमिटा व्यवहितः।
पूदिव्यञ्चेर्नाशाद्य तानपादाने ॥ ४. २. ७२ ॥
पू दिव् अञ्च् इत्यतेभ्यो यथासंख्यं नाशेऽद्यूते अनपादाने चार्थे परस्य क्तयोस्तकारस्य नकारादेशो भवति । पूना यवा विनष्टा इत्यर्थः ।
आयूनः, परिघुनः, समक्नौ शकुनेः पक्षौ संगतावित्यर्थः नाशाद्यूतानपादान इति किम् ? पूतं धान्यम् , द्यूतं वर्तते उदक्तमुदकं कुपात् , कथं व्यक्तम् ? अञ्जर्भविष्यति ॥७२॥
न्या० स०-पूदिव्य० - अनपादाने चार्थे इति-कोऽर्थः ? अञ्चिवाच्या क्रिया यद्यप्यपादानसाधनिका न भवतीत्यर्थः । . सेासे कर्मकर्तरि ॥ ४. २. ७३ ॥
सिनोतेः सिनातेर्वा परस्य क्तयोस्तकारस्य ग्रासे कर्मणि कर्तृत्वेन विवक्षिते नकारो भवति । सिनो प्रासः स्वयमेव । ग्रास इति किम् ? सितं कर्म स्वयमेव । कर्मकर्तरीति किम् ? सितो ग्रासो मैत्रेण, सितो गलो प्रासेन ॥७३॥
क्षेः क्षी चाध्यार्थे । ४. २. ७४ ॥
घ्यणर्थो भावकर्मणी ततोऽन्यस्मिन्नर्थे विहितयोः क्तयोस्तकारस्य क्षि इत्येतस्मात्परस्य नकारो भवति तत्संनियोगे चास्य क्षी इत्ययमादेशो भवति ।