________________
१३० ]
बृहवृत्ति-लघुन्याससंवलिते
[पाद-२, सूत्र-८२-८४
मिदेः परस्य क्तस्य नत्वामावो निपात्यते शकलम् शकलपर्यायश्चेद्धित्तशब्दो। भवति । भित्तम् शकलमित्यर्थः । शकलमिति किम् ? भिन्नम् । शकलमिति पर्यायनिर्देश: किम ? भिदिक्रियाविवक्षायां शकले विषये भिन्नमित्येव यथा स्यात् । भिन्नं शकलम, भिन्नं भितम् ।।१।।
न्या० स०-मित्तं शकलम् -भिन्नं शकलमिति-वर्त्तते, किं तत् शकलं ? किं विशिष्टं भिन्नं ? द्विधाकृतमिति विशेषणशब्दोऽत्र भिन्नशब्दः, यदि पुन: पर्यायशब्द: स्यात्तदा शकलस्याप्रयोगः स्यात् , पर्यायाणां हि प्रयोगो यौगपद्येन नेष्यते इति वचनात् ।
भिन्नं भित्तमिति-भित्तं शकलमित्यर्थः ।
वित्तं धनप्रतीतम् ॥ ४. २. ८२ ॥
विन्दतेः परस्यक्तस्य नत्वाभावो निपात्यते, धनप्रतीतम् धनपर्यायः प्रतीतपर्यायश्च चेदवित्तशब्दो भवति । विद्यते लभ्यते इति वित्तम धनम, विद्यते उपलभ्यतेऽसाविति वित्तः प्रतीतः । धनप्रतीतमिति किम् ? विनः, वेत्तेविदितम् । विन्तेविनं वित्तं च, विद्यतेविनम् । वित्तं धने प्रतीते च विन्दतेविनमन्यत्र ।।८२॥
हुधुटो हेर्थिः ॥ ४. २. ८३ ॥
जुहोतेधु डन्ताच्च धातोः परस्य हेधिरादेशो भवति । जुहुधि, धुट् छिन्द्धि, भिन्द्धि, अद्धि, विद्धि । हुधुट इति किम् ? कोणीहि । हुधुड्भ्यां परत्वेन हेविशेषणादिह न भवति । रुदिहि, स्वपिहि। हेरिति किम ? जुहोतु, अत्तु । जुहुतात्त्वम् भित्तात्त्वमित्यत्र नित्यत्वाप्रकृत्यनपेक्षणेनान्तरङ्गत्वाच्च तातङ् । तस्य च न पुनधिभावो हेरिति शब्दाश्रयणात् । केचित्तु हिंसेहेरव' हिंस, 'भुजिभञ्जिभ्यां तु वा भुज भुङ्ग्धि, भञ्ज भङ्ग्यि इतीच्छन्तिनैतद्वैयाकरणरूपसंमतम् । हिन्धि इत्यायेव तु भवति ॥३॥
न्या० स०-हधुटोहे-हुधुड्म्यां परत्वेनेति-एतत्तु न कृतं हुधुड्भ्यां विहितस्य हेः । रुविहीति-आगमा यद्गुणीभूता इति न्यायादिट्सहितस्य हेरादेशः प्राप्तः स न भवति, हेरिति व्यक्त्याश्रयणात् , केवलस्य तु हुधुभ्यां परत्वेनेति भणनात् न भवति । हिन्धीति-अत्र 'सोधि वा' ४-३-७२ इति वा सलुक् , तद्विकल्पे च 'तृतीयस्तृतीय' १-३-४९ इति सस्य तु दः, तस्य च 'धुटो धुटि' १-३-४८ इति वा लुप् तेन हिन्धीत्यपि ।
शासस-हनः शाध्येधि-जहि ।। ४. २. ८४ ॥
शास् अस् हन् इत्येतेषां हिप्रत्यया तानां शाध्येधि जहि इत्येते आदेशा यथासंख्यं भवन्ति । शाधि, एधि, जहि । शास्हनोः यङ्लुप्यपि शाधि, जहि, हनेस्तु यङ्लुपि नेच्छन्त्यन्ये ? जङ्घहि ।।४।।
न्या० स० शाससहनः०-शास्हन्साहचर्यात् असिति आदादिकस्य ग्रहणम् । यङ्लुप्यपीति-अस्तेस्तु स्वरादित्वात् यङ् नास्ति, अथ णकादिविषये भू आदेशे