________________
पाद-२, सूत्र-६-८]
श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[१०६
न्या० स०-वापगु०-अपगारमपगारमिति-अभीक्ष्णमपगय अपगुरणं पूर्व वा । ननु रुणम् प्रत्ययेनैव आभीक्ष्ण्यस्योक्तत्वात् द्वित्वं न प्राप्नोति ? न, शब्दशक्तिस्वाभाव्यात् केवलख्णम् आभीक्ष्ण्यं न द्योतयतीति द्वित्वमपेक्षते ।
दीङः सनि वा ॥ ४. २. ६ ॥
दोङः सनि परे आत्वं वा भवति । दिदासते, दिदीपते, उपदिदासते, उपदिदीपते ॥६॥
यबक्ङिति ॥ ४. २. ७॥
दीडो यपि अक्ङिति च प्रत्यये विषयभूते आकारोऽन्तादेशो भवति । उपदाय, उपदाता, अवदाय, उपदातुम् , उपदातव्यम् , उपादास्त । विषयसप्तमीनिर्देशात्पूर्वमेवात्वे सति ईषदुपादानः उपादायो वर्तते इत्यत्र आकारान्तलक्षणोऽनः घ च भवति ।
___ यबक्डितीतो किम् ? दोनः, उपदीयते, उपदेदीयते, सानुबन्धनिर्देशाद्यङ्लुपि न भवति,-उपदेदेति ।।७॥
न्या० स०-यबक्ङिति-ईषदुपादान इति-ईषदऽनायासेनोपादीयते 'शासयुधि' ५-३-१४१ इत्यनः । उपदायो वर्तत इति-यदा उपादानमिति भावविवक्षा तदा 'युवर्ण' ५-३-२८ इत्यऽल्विषये आत्वे भावाऽकोंर्घत्र , यदा तु उपदीयते इति कर्तृ विवक्षा तदाऽपि णकविषये आत्वे 'तन्व्यधी' ५-१-६४ इति णः, एतदपि विषयव्याख्याफलम् । ननु णं बाधित्वा उपसर्गाद् विशेषेण 'उपसर्गादातः ५-३-११० इति डो भविष्यतीति वाच्यं? न, यतस्तस्मिन् कर्तव्ये बाहुलकादात्वं नेष्यते इति महाभाष्येऽभाषिष्ट ।
घञ्च भवतीति-ननु घत्रः कथमाकारान्तलक्षणत्वमादन्तेभ्योऽप्यन्यत्रापि सामान्येन तस्य विधानात् ? उच्यते, घोप्याकारान्तलक्षणत्वं सामान्यमऽस्ति, यतः आकाराऽभावे ईदन्तत्वादऽल् स्यात् ।
मिग्मीगोखलचलि ।। ४.२.८ ॥
मिनोतिमीनात्योर्यपि खलचल्वजितेऽविडति च प्रत्यये विषयभूत प्राकारान्तादेशो भवति । निमाय, निमाता, निमातुम् , निमातव्यम् , न्यमासीत् । मोग-प्रमाय, प्रमाता, प्रमातुम, प्रमातव्यम् , प्रामासीत् । प्रखलचलीति किम् ? ईषनिमयः, दुष्प्रमयः । अचि-मयः, आमयः । अलि-निमयः, प्रमयः । सानुबन्धनिर्देशो यङ्लुपनिवत्त्यर्थः । निमेमेति, प्रमेमेति ।
यबक्तिीत्येव,-निमितः, प्रमीतः, निमेमीयते, प्रमेमीयते । मिग्मीग इति किम् ? मीच हिंसायामिति देवादिकस्य माभूत । मेता, मेतुम् । अस्याप्यात्वमिच्छन्त्यन्ये । माता,
मातुम् ॥८॥
- न्या० स०-मिग्मीगो०-निमायेति-तृच्विषये आत्वे 'तन्व्यधी' ५-१-६४ इति णे निमाय इति विसर्गान्तमपि, तर्हि निमातेति कथम् ? उच्यते, असरूपत्वात्तचपि । देवादिकस्येति-उपलक्षणत्वान्मीणगतावित्यस्यापि ।