________________
११० ]
बृहद्वृत्ति-लघुन्याससंवलिते [ पाद- २, सूत्र - ९-१२
लीड़ - लिनोर्वा ॥ ४. २१ ॥
तेलिनाश्च यपि खलचलवजितेऽक्ङिति प्रत्यये च विषयभूते आकारोऽन्तादेशो
वा भवति ।
विलाय, विलीय, विलाता, विलेता, विलास्यते, विलेष्यते, विलास्यति, विलेष्यति, व्यलासीत्, व्यलंषीत् । श्रखलचलीत्येव - ईषद्विलयः, विलय, विलयो वर्तते । यबविङतीत्येव - लीन:, विलीन, लीयते, लेलीयते, लिनाति । ङिल्लुप्ततिवोनिर्देशाद्यङ्लुपिन भवति - लेलेति । ली द्रवीकरण इति यौजादिकस्य च न भवति विलयति ||६||
न्या० स० - लीलिनोर्वा णे विलाय इत्यपि सिद्धम् । लोन इति 'ऋत्वादेः' ४-२-६८ इति ऋयादिकस्य दैवादिकस्य 'सूयत्याद्यो' ४-२-७० इति नत्वम् ।
णौ क्री - जीङः ॥ ४२. १० ॥
क्रींग, जि, इङ इत्येतेषां णौ परे आकारोऽन्तादेशो भवति । क्रापयति, जापयति, श्रध्यापयति ॥ १० ॥
सिव्यतेरज्ञाने ।। ४. २. ११ ॥
पिधूच् संराद्धावित्यस्याज्ञाने वर्तमानस्य णौ परतः स्वरस्याकारो भवति । मन्त्रं साधयति, तपः साधयति, अन्नं साधयति सार्धामकेभ्यो दातुम् ।
अज्ञान इति किम् ? तपस्तपस्विनं सेधयति, सिध्यति जानीते तपस्वी ज्ञानविशेषमासादयति तं तपः प्रयुङ्क्ते इत्यर्थः । स्वान्येवेनं कर्माणि सेधयन्ति । श्रस्य अनुभवविशेषमुत्पादयन्तीत्यर्थः । सिध्यतेरिति किम् ? षिधू गत्यामिति भौवादिकस्य मा भूत् । अन्नं सेधयति, तपः सेधयति । साधिनैव सिद्धे सिध्यतेरज्ञाने सेधयतीति प्रयोगनिवृत्त्यर्थं वचनम् ।।११।।
न्या० स० - सिध्यते र० - स्वरस्याकार इति-संध्यक्षरप्रस्तावात् स्वरस्येति लभ्यतेऽन्यथा ' षष्ठ्या अन्त्यस्य' ७ ४ १०६ इति न्यायात् घकारस्यैव स्यात् ।
arafar इति समानो धर्मः सधर्म्मः स प्रयोजनमेषां 'प्रयोजनम्' ६-४-११७ इतीकण, समानो धर्मोऽस्येति बहुव्रीहौ तु 'द्विपदाद्धर्मादन् ' ७-३-१४१ स्यात् । कर्माणि धयन्तीति - सिध्यति अनुभवविशेषमासादयति तमेनं तपस्विनं कर्माणि प्रयुञ्जते । अनुभवविशेषमिति - अनुभवः साक्षात्कारः स च ज्ञानमेव ।
त्रि - स्फुरोर्नवा ॥ ४. २. १२ ॥
चिनोतेः स्फुरतेश्च णौ परे स्वरस्यात्वं वा भवति । चापयति, चाययति, स्फारयति, स्फोरयति ।।१२।।
न्या० स० - चिस्फुरो०- स्फरस्फलत् स्फुरणे इत्यनेनैव सिद्धे स्फुरेरात्ववचनं ण्यन्तासनि पुस्कारयिषतीत्येवमर्थम् ।