________________
अथ द्वितीयः पादः आत्संध्याक्षरस्य ॥ ४. २. १ ॥
धातोः सन्ध्यक्षरान्तस्याकारो भवति निनिमित्तः । व्यंग्-संव्याता, देङ्-दाता, म्लैं-म्लाता, शों निशाता । अनैमित्तिकत्वादात्वस्य प्रागेव कृतत्वादाकारान्तलक्षणः प्रत्ययो भवति । सुग्लः, सुम्लः, सुग्लानम् , सुम्लानम् । धातोरित्येव,-गोम्याम , नौम्याम् । संध्यक्षरस्येति किम् ? कर्ता । इह लाक्षणिकत्वान्न भवति-चेता, स्तोता ॥१॥ . न्या० स०-आत् संध्यक्ष०-निनिमित्त इति-उत्तेरण सह पृथग्योगात् । न शिति ॥ ४. २. २ ॥
धातोः संध्यक्षरान्तस्य शिति प्रत्यये विषयभूते आकारो न भवति । ग्लायति, म्लायति, संव्ययति ॥२॥
न्या० स०-न शिति-ग्लायतीति-गुण इति सान्वय संज्ञा समाश्रयणादऽत्र गुणाभावः, यतः सतो विशेषाधानं गुणः, अत्र त्वैकारस्य एकारे कर्तव्ये न तथा, समासान्तागमेति न्यायाद् वा न गुणः । गुण इति हि संज्ञा ।
व्यस्थवणवि ॥ ४. २. ३ ॥
व्ययतेस्थवि णवि च विषयभूते प्राकारो न भवति । संविव्ययिथ, संविव्याय, अहं संविव्यय । थवणवीति किम् ? संव्याता, संव्यातुम् । केचित्तु परोक्षामात्रे आत्वप्रतिषेधमिच्छन्तो व्यगो म्वृद्विधि विकल्पयन्ति । तेन त्वक्त्रैः संविव्ययुर्वेहान् इति सिद्धम् । तदपरे पाठभ्रम एवायमिति मन्यन्ते, त्वक्त्रैः संविव्युरङ्गानि इति तु सम्यक्पाठः । एवं
'संविव्ययुर्वसनचारु चमूसमुत्थं, पृथ्वीरजः करभकण्ठकडारमाशाः' । इत्यत्रापि संविव्युरम्बरविकासि चमूसमुत्थमिति सत्पाठः ॥ ३ ॥
स्फुर-स्फुलोर्घजि ॥ ४. २. ४ ॥
स्फुरस्फुलोर्घजि संध्यक्षरस्याकारो भवति । विस्फारः, विस्फालः, विष्फारः, विष्फालः । 'वे:' (२-३-५५) इति वा षत्वम् । घनीति किम् ? विस्फोरकः ॥४॥
वापगुरो णमि ॥ ४. २. ५ ॥
अपपूर्वस्य गुरति इत्यस्य धातोः संध्यक्षरस्य स्थाने णमि प्रत्यये परे आकारादेशो वा भवति । अपगारमपगारम् , अपगोरमपगोरम् । आभीक्ष्ण्ये रुणम् द्वित्वं च । अस्यपगारं युध्यन्ते । अस्यपगोरं युध्यन्ते । 'द्वितीयया' ( ५-४-७८ ) इति णम् ॥५॥