________________
[ १०७
पाद - १, सूत्र - ११८-१२१ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
त्यज-यज-प्रवचः ॥ ४. १. ११८ ॥
एषां ध्यणि कौन भवतः । त्याज्यम्, याज्यम् । अत एव प्रतिषेधाद्यजेयणपि । प्रवचिग्रहणं शब्दसंज्ञार्थम्, प्रवाच्यो नाम पाठविशेष:, तदुपलक्षितो प्रन्थोऽप्युच्यते, उपसर्गनियमार्थं वा । प्रपूर्वस्यैव वचेरशब्दसंज्ञायां प्रतिषेधो भवति नान्योपसर्गपूर्वस्य । अधिवाक्यं नाम दशरात्रस्य यज्ञस्य यदृशममहः । यस्मिन्याज्ञिका अधि वते तस्मिन्नेवाभिधानम् । अधिवाच्यमन्यत्र ॥ ११८ ॥
न्या० स० त्यजयजप्र० - श्रधिवाक्यं नामेति नानिष्टार्थेति न्यायादधिवाक्यप्रयोगाय नियमो नाऽन्यत्र तेनाधिवाच्यमित्यत्रोत्तरेण प्रतिषेधः । दशरात्रस्येति दशानां रात्रीणां समाहारो दशरात्रः दशरात्रनिष्पाद्यो यज्ञोऽपि दशरात्र उपचारात्, दशरात्रमस्यास्तीति अभ्रादित्वाद् वा अः । तस्मिन्नेवाऽभिधानमिति तत्रैव प्रपूर्वस्यैवेत्युपसर्गनियमस्येष्टिरित्यर्थः ।
वचोऽशब्दनानि ॥ ४. १. १११ ॥
अशब्दसंज्ञायां गम्यमानायां वचेर्घ्यणि को न भवति । वाच्यमाह, अवाच्यमाह । शब्दनाम्नीति किम् ? वाक्यं, विशिष्ट: पदसमुदायः ॥ ११९॥
भुजन्युब्जं पाणिरोगे ॥ ४. १. १२० ॥
भुजेन पूर्वस्योब्जेव घञन्तस्य पाणौ रोगे चार्थे यथासंख्यं भुजन्युब्जौ निपात्येते । भुज्यतेऽनेनेति भुजः पाणिः, न्युब्जिताः शेरतेऽस्मिन् इति न्युब्जो नाम रोगविशेषः । व्यञ्जनाद् घञिति गत्वाभावो भुजेर्गुणाभावश्च निपात्यते । पाणिरोग इति किम् ? भोगः, न्युद्गः ।। १२० ।।
न्या० स०- भुजन्यु० - न्युद्ग - इत्यत्र न्यङक्वादित्वाद्गत्वं दत्वं च ।
वीरुन्न्यग्रोधौ ॥ ४. १. १२१ ॥
विपूर्वस्य रुहे: क्विपि न्यक्पूर्वस्य चाचि वीरुधन्यग्रोधशब्दौ धकारान्तो निपात्येते । विरोहतीति वीरुत्, न्यग्रोहतीति न्यग्रोधः, अवरोध इत्यप्यन्ये ।। १२१ ॥
इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनबृहद् - वृत्तौ चतुर्थस्याध्यायस्य प्रथमः पादः ॥
कुर्वन् कुन्तलशैथिल्यं मध्यदेशं निपीडयन् । अङ्गेषु विलसन् भूमेर्भर्ताभूद्भीमपार्थिवः ॥ १ ॥ न्या० स०-वीरुन्न्यग्रो- वीरुदित्यत्र निपाताद्दीर्घः । इत्याचार्य श्री० चतुर्थस्याध्यायस्य प्रथमः पादः सम्पूर्णः ।