________________
१०६ ]
बृहद्वृत्ति-लघुन्याससंवलिते [ पाद- १, सूत्र - ११४- ११७
पश्येते व्याधवार्केण्यसंकुलं वित्तवत्तमा ।
रात्रावपि महारण्ये वश्व वश्वन्ति वाणिजाः ॥ १ ॥ गताविति किम् ? व काष्ठं कुटिलमित्यर्थ ॥११३॥
न्या० स०-न वञ्चेर्ग०-व्याधवार्केष्यसंकुले इति-वृक एव 'वृकाट्टेण्याण्' ७-३-६४, व्याधश्च वार्केण्यश्च समासे कृते 'वान्येन' ६- १ - १३३ इति विभाषया न लुप् वार्केण्य बहुत्वात् ।
यजेर्यज्ञाङ्ग ॥ ४. १. ११४ ॥
यज्ञाङ्ग वर्तमानस्य यजेर्जस्य गत्वं न भवति । पञ्च प्रयाजाः, त्रयोऽनुयाजाः, एकादशोपयाजाः, उपांशुयाजाः, पत्नीसंयाजाः, ऋतुयाजाः । घञ् याज इत्यप्यन्ये । यज्ञाङ्ग इति किम् ? प्रयागः, अनुयागः, याग: ।। ११४ । ।
न्या० स० - यजेर्यज्ञा० - पञ्च प्रयाजा इति प्रेज्यन्ते एभिः 'व्यञ्जनाद् घञ्' ५ -३ - १३२, प्रयजनानि भावे घञ वा, एवं सर्वत्र भावेन बहुवचनेन च वाक्यानि । उपांशुयाजा इति - उपांशु एकान्ते यजनानि 'सप्तमी शौण्डाद्यैः' ३-१-८८ 'नाम्नि'
३-१-१४ वा समासः ।
ध्यण्यावश्यके ॥ ४. १. ११५ ॥
आवश्यकोपाधिके ध्यणि प्रत्यये परतो धातोश्चजोः कगौ न भवतः । अवश्यपाच्यम्, श्रवश्यरेच्यम्, अवश्यरज्यम्, अवश्यभञ्ज्यम् आवश्यके इति किम् ? पाक्यम्, रेक्यम्, रङ्ग्यम्, भङ्ग्यम् ॥ ११५ ॥ ॥
न्या० स० ध्यण्यावश्य०- - अवश्यपाच्यमित्यादिषु - 'मयूरव्यंसक' ३-१-११६ इति सः, 'णिन् चावश्यक' ५-४-३६ इति घ्यण् ।
निप्राद्यजः शक्ये ॥ ४. १. ११६॥
निप्राभ्यां परस्य युजः शक्येऽर्थे गम्यमाने ध्यणि परे गो न भवति । नियोक्तु शक्यः, नियोज्यः, प्रयोज्यः । शक्य इति किम् ? नियोग्यः, प्रयोग्यः ॥। ११६।।
भुजो भये ॥ ४. १. ११७ ॥
Parts of परे गो न भवति । भोज्यमन्नम् भोज्या यवागूः भोज्यं पयः । भक्ष्य इति किम् ? भोग्यः कम्बलः प्रावरणीय इत्यर्थः । भोग्या अपूपाः पालनीया इत्यर्थः । भक्ष्यमभ्यवहार्यमात्रम् न खरविशदमेव । यथा अब्भक्ष्यो वायुभक्ष्य इति ॥ ११७॥
न्या० स० भूजो भ० न खरविशदमेवेति कठोरप्रत्यक्षमित्यर्थः, अखर विशदमपि भक्ष्यं दृष्टमिति दृष्टान्तमाह प्रब्भक्ष्येति आपो द्रवं रूपं न कठिनं प्रत्यक्षं त्वऽस्ति वास्तु कठिन न प्रत्यक्षस्तस्यानुमानेन गम्यत्वात् तेन भोज्यं पय इत्यादि सिद्धम् ।