________________
पाद - १, सूत्र - ११२ - ११३ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[ १०५
क्तेऽनित्वात् गत्वं प्राप्नोति ? नैवम् क्तेऽनिट इति विद्यमानस्य विशेषणम्, प्रजेस्तु वभावेन असत्त्वाद् गत्वं न भवति । क्त इति किम् ? अर्चः, अर्च्यम्, याच्यम्, रोच्यम् । अर्चादयो हि अर्कः याश्वा रुक्ममिति प्रयोगेष्वनिटोऽपि वते सेट इति कत्वं न भवति । घितीति किम् ? पचनम् त्यजनम् ॥ १११।।
न्या० स० - क्तेऽनिट:-असत्त्वादिति - अविद्यमानत्वात्, यदि क्तकालेऽविकृतत्वात् धातोर्विद्यमानस्यानिट्त्वं भवति तदेत्यर्थः ।
न्यङ्कद्गमेघादयः ॥ ४. १. ११२ ॥
न्यक्वादयः कृतकत्वा उद्गादयः कृतगत्वा मेघादयः कृतघत्वा निपात्यन्ते । न्यश्व - रूप्रत्यये न्यङ्कुः । तविवश्विशुचीनां रकि तक्रम्, वक्रम्, शुक्रः, शुचिरुच्योर्घञि शोकः, रोकः । वते सेट्त्वान्न प्राप्नोति । घञोऽन्यत्र शोच्यम्, रोच्यम्, श्वपाकः, मांसपाकः, पिण्डपाकः, कपोतपाकः, उलूकपाकः । पचेः 'कर्मणोऽण्' (५-१-७२ ) इत्यणि सति, प्रणभावे श्वपच इत्यादि । नीचेपाकः, दूरेपाकः, फलेपाकः, क्षणेपाकः । पचेनचे पच्यते नीचे पच्यते स्वयमेवेति कर्मकर्तर्यचि दीर्घत्वं च निपातनात् । ' तत्पुरुषे कृति' ( ३-२-२० ) इति बहुलाधिकारात् सप्तम्या अलुप् । उकारान्ता अपि गणे पठ्यन्ते । नीचेपाकुः, फलेपाकुः, दूरेपाकु:, क्षणेपाकु:, अत एव निपातनादुकारः । नीचेपाका, दूरेपाका, फलेपाका, क्षणेपाका इत्यवन्ता अपि । अनुवोतीत्यच्-अनुवाकः सोमं प्रवक्तीत्यण्- सोमप्रवाकः, उचेः न्युच्यति समवेतीति लिहाद्यचि न्योको वृक्षः शकुन्तो वा । उब्जेर्घञि उद्गः, समुद्गः, न्युद्गः, अभ्युद्गः । क्ते सेट्त्वाद्गत्वमुपान्त्यस्य च दत्वं निपात्यते । सृजेः कर्तर्यचि सर्गः, विसर्गः, अवसर्गः, उपसर्गः । षजेरचि-व्यतिषङ्गः, श्रनुषङ्गः मस्जेरुः मद्गुः, भ्रस्जेः कुः सलोपश्च । भृगुः, युजे: 'कर्मणोऽण्' ( ५-१-७२ ) इत्यणि गोयोगः मिहेरचि संज्ञायां हस्य घत्वम् - मेघः, अन्यत्र मेहः । वहेरनुपसंगस्य वस्यौकारश्च । वहतीत्योघः प्रवाहः । अनुपसर्गस्येत्येव, - प्रवहः, विवहः, परिवहः, संवहः उद्वहः, अभिवहः, निवहः । संज्ञायामित्येव - वहः । दवाभ्यां घञि निदाघः ऋतुविशेषः । श्रवदाघः केवलपानीयपक्वोऽपूपः । संज्ञायामित्येव, - निदाहः, अवदाहः । अहंतेर्घञि अर्धो मूल्यम् पूजाद्रव्यं च । संज्ञायामित्येव - अर्हः एवमविहितलक्षणानि कत्वगत्वघत्वानि द्रष्टव्यानि ॥। ११२ ।।
"
न्या० स० न्यङ्कद्०-अनुवाक इति पाठविशेष: गणपाठाद्दीर्घत्वम् । व्यतिषङ्ग इति व्यतिषजतीति क्रियाव्यतिहारे व्यतिषजते इति वाऽच्, 'स्थासेनि' २ - ३ - ४० इति षत्वम् ।
द्गुरिति अत्र जस्य गत्वे कृते निमित्ताऽभाव इति दन्त्यसकारभावे दन्त्यसकारस्थाने 'तृतीयस्तृतीय' १-३-४९ इति दन्त्यसस्य तृतीयो दकारः ।
न वञ्चेर्गतौ ॥ ४. १. ११३ ॥
वञ्चेर्गत वर्तमानस्य कत्वं न भवति, वञ्चेर्घञ् । वव ं वश्वति, गन्तव्यं गच्छतीत्यर्थः ।
2