________________
१०२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-१, सूत्र-६०२-१०४
श्चैत्रेण मैत्रेणेति । हविःक्षीर इत्येव,-श्रपिता यवागः, अन्ये तु अपि चुरादौ पठन्ति तस्यैव अपेनिपातनम् । प्रयोजकण्यन्तस्य त्वेकस्यापि प्रयोगं नेच्छन्ति । तन्मते कर्मकर्तृहविः श्रात चैत्रः प्रयक्तवान इति प्रयोजकव्यापारे णिगि श्रपितं हविश्चैत्रणेत्येव भवति । अपरे तु सकर्मकावपि श्रातिश्रायती इच्छन्ति-तन्मते, तयोरप्यण्यन्तयोनिपातनं भवति । शृतं हविश्चत्रेण । ग्यन्तयोस्तु न भवत्येव, श्रपितं हविश्चत्रेण मैत्रेणेति ॥१०१॥
न्या० स० श्रपेः प्रयो०-शतं हविश्चैत्रेणेति णिगि पान्ते घटादेह्रस्वे श्रप्यते स्मेति वाक्ये कर्मणि क्ते निपातनादिडभावः । श्रपितं हविरित्यादि-पूर्ववत्प्रथमो णिग् , ततस्तं चैत्रं श्रपयन्तं मैत्र: प्रायुक्त, पाचितमित्यर्थः । अपि चुरादाविति-अदन्तं, तस्य च फलं हवि: क्षीरादऽन्यत्र दृश्यम् । तयोरपीति-न केवलमऽकर्मकयोः सकर्मकयोरपि तयोः श्रः शतमिति निपातनं भवति इत्यपेरर्थः ।
स्वृत्सकृत् ॥ ४. १. १०२॥
वदिति अन्तस्थास्थानानामिकारोकारऋकाराणां शास्त्रेऽस्मिन् व्यवहारः। धातोवत्सकृदेकवारमेव भवति । यावत्संभवस्तावद्विधिरिति न्यायात पुनःप्राप्तं प्रतिषिध्यते । संवोयते, विध्यते, विच्यते, वेवीयते, वेविध्यते, वेविच्यते ।।१०२॥
न्या० स० ग्वृवसकृत-संवीयते इति-अत्र यकारस्य यजादिवचे.' ४-१-७६ इति वृति पुनर्वकारस्य प्राप्तमनेन निषिध्यते।
दीर्घमवोऽन्त्यम् ॥ ४. १. १०३ ॥
वेगवजितस्य धातोर्वृदन्त्यं दीर्घ भवति । जीनः, जीनवान् , जिनाति संवोतः, हूतः, शूनः । अव इति किम् ? उतः, उतवान् । अन्त्यमिति किम् ? सुप्तः, उप्तः ॥१०३॥
न्या० स० दीर्घमवो०-उत इति-क्विपि उत् उतौ उत इति भाष्यम् । सुप्त इति'ज्ञानेच्छा र्थ' ५-३-९२ इति क्तः ।
स्वरहनगमोः सनि धुटि ॥ ४. १. १०४ ॥
स्वरान्तस्य धातोर्हन्तेर्गमोश्च धुडादौ सनि परे स्वरस्य दीर्घो भवति । स्वर-चिचीषति, तुतूषति, चिकीर्षति, हन-जिघांसति, गमु-जिगांस्यते, संजिगांसते, अधिजिगांस्यते माता, अधिजिगांसते सूत्रम् । गम्विति इणिकिङादेशस्य गमेर्ग्रहणाद्गच्छतेन भवति । संजिगंसते वत्सो मात्रा । इङादेशस्यैव गमोरिच्छन्त्येके-तन्मते इण जिगंस्यते, संजिगंसते । इक-अधिजिगंस्यते मातेत्येव भवति । सनीति किम् ? स्तुतः । धुटीति किम् ? यियविषति ॥१०४।।
न्या० स० स्वरहन-संजिगांसते इति-समेतुमिच्छति सन् , 'सनीङश्च' ४-४-२५ इति गमुः, गम्लु गतावित्यनेन सह इणादेशस्य गमेऽरभेदोपचाराद् गम्लकार्यमात्मनेपदं प्राग्वदित्यनेन, अन्यथा सनः प्राग् आत्मनेपदाऽदर्शनान्नस्यात् , उपचारे तु 'समो गमृच्छि'