________________
पाद-१, सूत्र–१०५-१०८ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः [ १०३
३-२-८४ इति प्राक् दृष्टम् | यियविषतीति प्रथमं गुणं बाधित्वा दीर्घे सकृद्गते इति प्रवर्त्तते ।
तनो वा ॥ ४.
१०५ ॥
नादौ सनि परे स्वरस्य दीर्घो वा भवति । तितांसति, तितंसति । घुटीत्येव - वितितनिषति । यङ्लुपि, तंतनिषति ॥ १०५ ॥
न्या० स० तनो वा-तंत निषतीति- 'इवृध' ४-४-४७ इतीटि विकल्पात्तितांसति तितंसतीत्यपि ।
क्रमः क्वि वा ॥ ४. १. १०६ ।।
क्रमः स्वरस्य घुडादौ क्त्वाप्रत्यये वा दीर्घो भवति । क्रान्त्वा, क्रन्त्वा । घुटि इत्येव - क्रमित्वा । 'ऊदितो वा' (४-४-४२) इति वेट् । प्रकम्येत्यत्र त्वन्तरङ्गमपि दीर्घत्वं बाधित्वा प्रागेव यप्, एतच्च 'यपि चादो जग्ध्' ( ४-४-१६ ) इत्यत्र ज्ञापयिष्यते ॥ १०६ ॥
अहन्पञ्चमस्य विक्ङिति ॥। ४. १. १०७ ॥
1
हन्वजितस्य पञ्चमान्तस्य धातोः स्वरस्य क्वौ घुडादौ च क्ङिति प्रत्यये दीर्घो भवति । प्रशान् प्रतान् प्रदान्, प्रशामौ प्रतामौ प्रदामौ । किति- शान्तः, शान्तवान्, शान्त्वा, शान्ति, एवं तान्तः, दान्तः । ङिति - शंशान्तः, तन्तान्तः, दंदान्तः । पञ्चमस्येति किम् ? श्रोदनपक्, पक्त्वा । अहन्निति किम् ? वृत्रहणि, भ्रूणहनि । विवषिङति इति किम् ? गन्ता, रन्ता । घुटीत्येव यम्यते, यंयम्यते । कचित्त्वाचारश्वावपि दीर्घत्वमिच्छति । कमिवाचरति कामति, एवं शम् शामति, किम् कीमति, इदम्-इदामति ॥१०७॥
न्या० स० ग्रहन्पञ्चम० - प्रशानिति-नादेशस्य परेऽसत्त्वान्नलोपाभावः, हन्वर्जनात् उपदेशावस्थायां पञ्चमो गृह्यते, तेन सुगणित्यत्र दीर्घो न । वृत्रहणीति संज्ञायां 'पूर्वपदस्था ' २-३-६४ इति असंज्ञायां तु 'कवर्गेक' २-३-७६ इति णत्वं, कश्चित्तु आचारकाविति - स्वमते तु तस्मिन् धातुत्वाऽभावान्न दीर्घः ।
अनुनासिके च च्छ्वः शूट् ॥ ४. १. १०८ ॥
,
अनुनासिकादौ क्वौ घुडादौ प्रत्यये च धातोश्च्छकारवकारयोर्यथासंख्यं श् ऊट् इत्येतावादेशौ भवतः । प्रश्नः, विश्नः, छस्य द्विःपाठात् द्वयोरपि शकारः । विव-शब्दप्राट्, शब्दप्राशौ गोविट्, गोविशौ, घुट- पृष्टः, पृष्टवान्, प्रष्टा, प्रष्टुम् स्योमा, स्योनः । सिवेप्रत्येणादिकेच ने लघुपान्त्यगुणात्पूर्वमूट् क्रियते नित्यत्वात् तत्र कृतेऽल्पाश्रितत्वेनान्तरङ्गत्वाद्यत्वं न तु गुणः । श्रक्षद्य, हिरण्यद्यूः । 'प्रसिद्ध बहिरङ्गमन्तरङ्ग' * इति स्वरानन्तर्य नेष्यते तेन यत्वं भवति । द्यूतः द्यूतवान्, दुद्यूषति । वकारस्य विकल्पेनानुनासिकत्वाद्वन्क्वनिपोः सुस्योवा, सुस्यूवा, पक्षे, सुसेवा, सुसित्वेत्यपि सिद्धम् । धातोरित्येव,दिवेरौणादिक डिव् प्रत्ययान्तस्य द्युभ्याम्, द्युभिः, यदा तु दिवेः क्विप् तदा धातुत्वात् द्यूभ्यां