________________
पाद - १, सूत्र - ९८ - १०१ ]
श्री सिद्ध हेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः [ १०१
माहारः कर्मधारय वा शीतं वर्त्तते इति कर्त्तरिक्तः, अत्र शीतस्पर्शो मुख्यभावेन, शीतो वायुरित्यत्र तु गौणभावेन वर्त्तते ।
प्रतेः ॥ ४. १.१८ ॥
प्रतिपरस्य श्यायतेः क्तयोः परतः शी इत्ययमादेशो भवति तत्संनियोगे च क्तयोस्तकारस्य नकारः । प्रतिशीनः प्रतिशीनवान् । प्रतिपूर्वोऽयं रोगे वर्तत इति पूर्वेणाप्राप्तौ वचनम् ।। ६८ ।।
वाभ्यवाभ्याम् ॥। ४. १. ११ ॥
श्रभि, अव इत्येताभ्यां परस्य स्त्यायतेः क्तयोः परतः शी इत्ययमादेशो वा भवति, तत्संनियोगे च क्तयोस्तस्यास्पर्शे नो भवति । श्रभिशीनः, अभिशीनवान्, अभिश्यानः, अभियानवान्, अवशीनः, अवशीनवान्, अवश्यानः, अवश्यानवान् । द्रवमूर्तिस्पर्शयोरप्यनेन परत्वाद्विकल्पो भवति । अभिशीनं घृतम्, अभिशयानं घृतम्, श्रवशीनं हिमम्, अवश्यानं हिमम्, श्रभिशीतो वायुः, अवशीतो वायुः, स्पर्शत्वान्न नत्वम् । अभिश्यानो वायुः, अवश्यानो वायुः । ' व्यञ्जनान्तस्थातोऽख्याध्य:' ( ४-२ ७१ ) इति स्पर्शेऽपि नत्वम् । अभ्यवाभ्यामिति किम् ? संश्यान, संश्यानवान् । केचित्तु समा व्यवधानेऽपीच्छन्ति । अभिशीन:, अभिसंशोनवान्, श्रभिसंश्यानः, श्रभिसंश्यानवान्, अवसंशीनः, अवसंशीनवान्, श्रवसंश्यानः, अवसंश्यानवान् । तदाभ्यवाभ्यामिति तृतीया व्याख्येया । समस्ताभ्यामपीत्यन्ये अभ्यवशीनः अभ्यवश्यानः । विपर्यासे प्रयोगो नास्ति, वा शब्दस्य च व्यवस्थित विभाषार्थादन्योपसर्गान्ताभ्यां न भवति । समभिश्यानः, समभिश्यानवान्, समवश्यानः, समवश्यानवान् ॥६६॥
"
न्या० स० - वाभ्य० - अस्पर्शे नो भवतीति पूर्वसूत्रे अस्पर्श इति नोक्त रोगेऽसंभवात् ।
To
श्रः श्रुतं हविः तीरे ॥ ४. १. १०० ॥
श्रातेः श्रायतेश्च क्तप्रत्यये हविषि क्षीरे चाभिधेये शृभावो निपात्यते । शृतं हविः, शृतं क्षीरम् स्वयमेव । श्रातिश्रायती हि श्रकर्मकौ कर्मकविषयस्य पचेरर्थे वर्तेते । तयोश्च - तन्निपातनम् । हविःक्षीर इति किम् ? श्राणा यवागूः ॥ १०० ।।
न्या० सं० श्रः शृतं - ननु कथं शृतं क्षीरं स्वयमेवेत्युक्त, शृतं क्षीरं देवदत्तेनेति कथं न भवति ? इत्याशङ्कयाह श्राति, श्रायती इति ।
पेः प्रयोक्त्रैक्ये ॥ ४. १. १०१ ॥
श्रायतेः श्रातेर्वा ण्यन्तस्यैकस्मिन् प्रयोक्तरि क्ते परतो हविषि क्षीरे चाभिधेये शृभावो निपात्यते । श्राति, श्रायति वा हविः स्वयमेव तच्चत्रेण प्रायुज्यत शृतं हविश्चैत्रेण । शृतं क्षीरं चैत्रेण । यदा तु द्वितीये प्रयोक्तरि णिगुत्पद्यते तदा न भवति । श्रपितं हवि