________________
बृहद्वृत्ति-लघुन्याससंवलिते
[ पाद - १, सूत्र - ८५-८६
न्या० स०- ग्रहव्रश्च ० - पृच्छ्यते इति क्यस्य सानुनासिकत्वं नादृतमिति 'अनुनासिके च' ४-१-१०८ इति शो न भवति । वरिवृष्ट इति वशस्तु भाष्यकृताप्यनुदाहृतत्वान्न दर्शितं, प्रयोगस्तु वोष्टि: वोष्ट इति टिप्पन कृतः ।
६८ ]
व्येस्यमोर्यङि । ४. १. ८५ ॥
व्येस्यमोः सस्वरान्तस्था यङि वृद्भवति । वेवीयते, वेवयीति, सेसिम्यते, से सिमीति । यङ्लुपिनेच्छन्त्यन्ये । वाव्याति, संस्यन्ति । यङीति किम् ? व्ययति ॥ ८५ ॥
चायः की ।। ४. १. ८६
चायुगित्येतस्य यङ की इत्ययमादेशो भवति । चेकीयते । दीर्घनिर्देशो यङ्लुबर्थ:चेकीतः ॥८६॥
न्या० स० - चायः की- दीर्घनिर्देशात् यङ लुप्यप्यादेश इत्यर्थः, अन्यथा हि यदि साक्षात् यङयादेशः स्यात्तदा 'दीर्घश्च्वि' ४ ३ १०८ इति दीर्घः सिद्धः, एवं 'प्यायः पी' इत्यत्रापि ।
द्वित्वे ह्वः ॥ ४. १. ८७ ॥
ह्वयद्वित्वविषये सस्वरान्तस्था वृद्भवति । जुहाव, जुहुवतुः, जोहूयते, जोहवीति, जुहुषति । अनेनैव सिद्धे उत्तरसूत्रकरणं णेरन्यस्मिन् द्वित्वनिमित्तप्रत्ययव्यवधायके वृत्माभूदित्येवमर्थम् तेनेह न भवति -ह्वायकमिच्छति ह्वायकीयति । ततः सन् जिह्वायकीयषति ॥ ८७ ॥
,
णौ सनि ॥ ४. १८८ ॥
ह्वयतेः सस्वरान्तस्था ङपरे सन्परे च णौ विषये वृद्भवति । अजुहवत्, जुहाव - यिषति । णाविति विषयसप्तमीति किम् ? णिविषय एवान्तरङ्गमपि यकारागमं बाधित्वा वृद्यथा स्यात् । ङसनीति किम् ? ह्वाययति ॥ ८८ ॥
न्या० स०- नौङसनि० यकारागमं बाधित्वेति - उपलक्षणत्वात् णौ यत्कृतं कार्यम् इति च वृत् यथा स्यादिति, कृते तु य्वृति यो न भवति, 'अतिरी० ४-२ - २१ इति प्वागमबाधकत्वेन आदन्तेभ्यो यस्य प्रवृत्तेः ।
श्वेर्वा ॥ ४. १. ८१ ॥
श्वयतेः सस्वरान्तस्था ङपरे सन्परे च णौ विषये वृद्वा भवति । अशूशवत्, अशिश्वयत् शुशावयिषति, शिश्वाययिषति । विषयविज्ञानादन्तरङ्गमपि वृद्ध्यादिकं वृता बाध्यते कृते च तस्मिन्वृद्धिः, तत श्रावादेश उपान्त्यहस्वत्वम्, ततो णिकृतस्य
T