________________
पाद-१, सूत्र-९०-९३ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[६६
स्थानित्वात् शोद्वित्वम् ततः पूर्वदीर्घ इति क्रमः । णावित्येव,-अशिश्वियत् , शिश्वयिषति ।। ८६ ॥
न्या० स०-श्वेर्वा - विषयविज्ञानादित्यादि-ननु विधानसामर्थ्यादेव वृद्ध्यादिक बाधित्वा य्वृद्भविष्यति किं विषयव्याख्यानेन ? नैवं,-वृद्धौ कृतायामऽपि यस्यापि य्वत् प्राप्नोति, अतो विधानं चरितार्थम् ।
वा परोक्षायङि ॥ ४. १. १० ॥
श्वयतेः सस्वरान्तस्था परोक्षायां यङि च परे वा वृत् भवति । शुशाव, शिश्वाय, अहं शुशव, शिश्वय, शुशुवतुः, शिश्वियतुः, शुशविथ, शिश्वयिथ, शोशूयते, शोशवीति, शेश्वीयते, शेश्वयोति । अवित्परोक्षायां कित्त्वाद्यजादित्वेन प्राप्ते विति परोक्षायां यङि चाप्राप्ते विभाषा ६०॥
न्या० स० वा परोक्षा०-शुशुवतुरिति-'दीर्घमवः' ४-१-१०३ इति दीर्घ द्विवचनम् । प्यायः पी॥ ४. १. ११ ॥
प्यायतेः परोक्षायां यङि च पीरादेशो भवति । प्रापिप्ये, प्रापिप्याते, आपिप्यिरे, पेपोयते, प्रपेयीयते । दीर्घनिर्देशो यङ्लुबर्थ:-आपेपेति, आपेपीतः ॥१॥
न्या० स०-प्याय: पी०-आपेपीत इति-भोजेनैतत् क्तान्तं साधितमिति तिवन्तोदाहरणमग्रेतनवर्त्तमानानिश्चयार्थम् ।
क्तयोरनुपसर्गस्य ॥ ४. १. १२ ॥
अनुपसर्गस्य प्यायः क्तयोः क्तक्तवत्वोः प्रत्यययोः परयोः पीत्ययमादेशो भवति । पीनं मुखम् , पीनवन्मुखम् । क्तयोरिति किम् ? प्यायते । अनुपसर्गस्येति किम् ? प्रप्यानो मेघ: ।।२।।
आङोऽन्धूधसोः॥ ४. १. १३ ॥
आङ उपसर्गात्परस्य प्यायतेरन्धावूधसि चार्थे क्तयोः परतः पोरादेशो भवति । पापीनोऽन्धुः, आपीनमूधः, अन्धुव्रणम् ऊधसो वा पर्यायः । आङ इति किम् ? प्रप्यानोऽन्धुः, परिप्यानमूधः । अन्धूधसोरिति किम् ? आप्यानश्चन्द्रः । प्राङ एवेति नियमात् प्राप्यानमूध इत्यत्राङन्तादुपसर्गान भवति । अनुपसर्गस्य तु पूर्वेण भवत्येव । पोनोऽन्धु, पीनवानन्धु, पीनमूधः, पीनवदूधः । अन्ये तु प्यायतेः केवलस्याङ्तर्वस्याङन्तोपसर्गपूर्वस्यैव च प्रयोगमिच्छन्ति नान्यपूर्वस्य । तन्मत प्रप्यानपरिप्यानादयोऽप्रयोगाः । क्तयोरित्येव, आप्याय्यः ।।६३||
न्या० स०-प्राङोन्धुधसो:०-ऊधसो वा पर्याय इति-ननु तहि आङोन्धाविति सिद्धे ऊघस्ग्रहणं किमर्थम् ? सत्यं, ऊधोग्रहणं बोधयति आपीन इति प्रयोगो व्रणे विशेषणतया