________________
पाद- १, सूत्र- ८१-८४ ] श्री सिद्ध हेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः ।
[ ६७
न्या० स०-स्वपेयङ्ङे च असूषुपदिति न च वाच्यं प्राक् तु स्वरे० * इति न्यायात् द्वित्वमेव भविष्यति न णिगाश्रितो गुणः, यतो यदि तेनैव द्वित्वनिमित्तेन प्रत्ययेन जन्यते स्वरविधिस्तदैव न स्यादऽत्र तु द्वित्वनिमित्तप्रत्ययाऽजन्य इति । असुषुपदिति-स्वमते तु असस्वापदिति ।
ज्याव्यधः क्ङिति ॥। ४. १. ८१ ॥
जिनाविध्यतेश्च सस्वरान्तस्था किति ङिति च प्रत्यये परे वृत् भवति । जिज्यतुः जीयते, जीयात्, जीन:, ङिति - जिनाति, जेजीयते, जेजेति, विविधतुः, विध्यते, विध्यात्, विद्धः ङिति - विध्यति, वैविध्यते, वेवेद्धि । क्ङिति इति किम् ? ज्याता,
व्यद्धा ।। ६१॥
न्या० स० ज्याव्यधः - प्रत्यय इति विशेष्यं क्ङितीति विशेषणमतो धातुनिमित्तयोर्यथासंख्यं न भवति । जिनातीति- वृत् 'दीर्घमवोन्त्यं' ४-१-१०३ 'प्वादेह स्वः' ४-२-१०५ ।
व्यचोऽनसि । ४. १. ८२ ॥
व्यचेः सस्वरान्तस्थाऽस्वजते विङति प्रत्यये परे वृद्भवति । विचिता, विचितुम्, वेविच्यते, विचति । अनसीति किम् ? उरुव्यचाः ॥ ८२ ॥ |
न्या० स०- - व्यचोऽनसि विचितेति- कुटादित्वात् ङित्वे य्वृत् । उरुव्यचा इतिउरुविचति असित्य सः कुटादित्वात् ङित्वम् ।
शेरयङि । ४. १. ८३ ॥
वशेः सस्वरान्तस्था अयङि क्ङिति प्रत्यये परे वृद्भवति । उश्यते, ऊशतुः उशितम्, उष्ट, उशन्ति । अयङीति किम् ? वावश्यते । विङतीत्येव - वष्टि ||८३ ॥
ग्रह-व्रस्च भ्रस्ज-प्रच्छः ॥ ४. १. ८४ ॥
ग्रहादीनां सस्वरान्तस्था क्ङिति प्रत्यये परे वृद्भवति । जगृहतुः, जगृहु: गृह्यते, गृहीतः, जिघृक्षति, गृह्णाति, जरीगृह्यते, जरीगृहीति, वृश्च्यते, वृषणः, वृश्चति, वरीवृश्च्यते, भज्ज्यते, भृष्ट:, भृज्जति, बरीभृज्ज्यते, पृच्छयते, पिपृच्छिषति पृष्टः, पृच्छतिः, परीपृच्छ
ते पृच्छा । विङतोत्येव - ग्रहीता, वज्रश्वतुः वभ्रज्जतुः पप्रच्छतु प्रश्नः । व्यचिवशिवश्चिस्जिप्रच्छोनां पञ्चानां यङ्लुबन्तानां नेच्छन्त्यन्ये । तस्, - वाव्यक्तः । नाम्नि तिक्वाव्यक्तिः, वावष्टः, वावष्टिः, वाव्रष्टः, वाव्रष्टिः, बाभ्रष्टः, बाभ्रष्टिः, पाप्रष्टः, पाप्रष्टिः । श्रन्ये तु 'प्रकृतिग्रहणे यङ्लुबन्तस्यापि ग्रहणम्' इति यङ्लुप्यपि मन्यन्ते तेन वेविक्तः, वेविक्तिः, वरिवृष्टः, बरिवृष्टिः बरिभृष्टः, बरिभृष्टिः, परिपृष्टः परिपृष्टिः । अपरे विचतिवृश्चतिभृज्जति पृच्छतीनां नित्यं वृत् ज्यादीनां त्वनित्यमिति मन्यन्ते तेनेदं सिद्धम् 'तस्यास्त्रयस्त्रीनपि विव्यधुः शरैः' इति श्रन्ये तु विविधुरित्येवाहुः ||८४ ॥
तु