________________
६६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ३. सू० २०-२२.]
न्या० स०–नःशीत्यादि । कत्वं न भवतीति-अत्रोपलक्षणव्याख्यानात् "पदस्य" [२. १. ८६.] इत्यपि न भवति ॥ १६ ॥
अतोऽति रो रुः ॥ १. ३. २० ॥
वेति निवृत्तम्, अतोऽकारात् परस्य पदान्ते वर्तमानस्य रोः स्थाने अति-प्रकारे परे उकारादेशो भवति । कोऽत्र, कोऽर्थः । अत इति किम् ? 5 अग्निरत्र, देवा अत्र, सुश्रोत३यत्र न्वसि !। अतीति किम् ? क इह, सर्वज्ञ आस्ते, पय अ३श्वदत्त !। रोरिति किम् ? पुनरत्र ।। २० ।।
न्या० स०–अतोऽतीत्यादि । वेति निवृत्तमिति-'कार्टी, निमित्तम्, कार्यम्' इत्येष हि निर्देशक्रमः, अत्र तु कार्यिणः पूर्व निमित्तोपादानेन निर्देशक्रमातिक्रमं कुर्वन्नधिकारातिक्रमं सूचयति, शिनिवृत्तेर्वा । तथाऽतोऽतीति निर्देशात् सन्निपातलक्षण न्यायो10 नोपतिष्ठते, तथा "इवर्णादे०" [१. २. २१.] इति वत्वं प्राप्नोति, परम् ॐअन्तरङगबहिरङ गयो:०% इति न्यायान्न भवति वत्वम् । ननु 'तरावयनम् तर्वयनम्' इत्यत्र रुशब्दस्यैव ग्रहणं कस्मान्न विज्ञायते, किमित्युदित एवेति ? सत्यम्-“अतोऽति रो रुः" [१. ३. २०.] इत्यत एव ज्ञापकात् । किञ्च, एतत्सूत्रोपात्तस्य रोरेवोत्तरत्रानुवृत्तिस्तत्र च भो-भगोऽघोभ्यः परस्य पदान्तस्थस्य रोरन्यस्यासम्भवात् सानुबन्धस्यैव ग्रहणं भवतीति । सुश्रोतक्यत्र15 न्वसीति-'अतः' इति तपरनिर्देशेन स्वरूपग्रहणात् प्लुते सति न भवति, परत्वादन्तरङ गत्वाच्चोकारात् पूर्वमेव प्लुतः ॥ २० ।।
घोषवति ॥ १. ३. २१ ॥
अतः परस्य पदान्ते वर्तमानस्य रोः स्थाने घोषवति परे उकारो भवति । को गच्छति, धर्मो जयति, अहोभ्याम् । घोषवतीति किम् ? क:20 करोति । अत इत्येव ? मुनिर्गच्छति, सुश्रोत ३ देहि । रोरित्येव ? स्वर्याति, पुनर्वक्ति । उत्तरेण लुकि प्राप्तेऽपवादोऽयम् ।। २१ ॥
अवर्ण-भो-भगो-घोलुगसन्धिः ॥ १. ३. २२ ॥
अवर्णाद भो-भगोऽघोभ्यश्च परस्य पदान्तस्थस्य रो?षवति परे लुग भवति, स चासन्धिः-सन्धेनिमित्तं न भवति । श्रमणा गच्छन्ति, धार्मिका25 जयन्ति, अकारात् तु परस्य रोः पूर्वेणापवादत्वादुत्वमेव; भो गच्छसि, भगो हससि, अघो यासि । 'भो, भगो, अघों' इत्येते आमन्त्रणार्थाः सकारान्ता