________________
[पा० ३. सू० २३.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ ६७
अव्ययाः । केचित् तु भवद्-भगवद्-अघवतां संबोधने सौ परतो वशब्दस्योत्वं तकारस्य च रुत्वं कृत्वा एतानि रूपाणीच्छन्ति, तेषां द्विवचन-बहुवचनयोः स्त्रियां च न सिध्यति-भो ब्राह्मणौ !, भो ब्राह्मणाः !, भो ब्राह्मरिण !, भगो ब्राह्मणौ !, भगो ब्राह्मणाः !, भगो ब्राह्मरिण !, अघो ब्राह्मणौ !, अघो ब्राह्मणाः !, अघो ब्राह्मणि !। घोषवतीत्येव ? कुमाराः क्रीडन्ति । 5 असन्धिरित्युत्तरार्थम् ॥ २२ ॥
न्या० स०–अवर्णेत्यादि । ननु सन्धिरूपतायां सत्यामसन्धिरिति प्रतिषेधो युक्तः, लुक् तु अभावरूपत्वात् सन्धिरूप एव न भवतीति कथं निषिध्यते ?-स चासन्धिरित्यत आह-सन्धेरित्यादि-अत्र सन्धिशब्देन सन्धिनिमित्तस्योपचारादभिधानम् । केचित त्विति-इन्द्रगोमि-कालापकप्रभृतयः । भवद्-भगवद्-अघवतामिति-भज्यन्ते-सेव्यन्ते स्वेन10 रूपेण स्थाप्यन्ते पदार्था अनेनेति “गोचर-संचर०" [५. ३. १३१.] इति घे भगम्, "तदस्यास्त्य०" [७. २. १.] इति मतौ भगवदिति रूपम् ; "अघण पापकरणे" अतोऽलि मती अघवत्, अनवहितस्यान्यत्र व्यासक्तस्याभिमुखीकरणं संबोधनम्, आमन्त्रणमित्यर्थः । असन्धिरित्युत्तरार्थमिति-ननु तर्हि "स्वरे वा" [१. २. २४.] इत्यत्रैव "असन्धिः स्वरे वा" इत्येवमसन्धिग्रहणं क्रियताम् ?, नैवम्-लुक्सन्नियोगशिष्टत्वज्ञापनार्थत्वादत्रोपादा-15 नस्य, तेन यत्रानेनाधिकारेण लुक् तत्रैवासन्धिः, ततश्चात्रागच्छतीत्यादौ सन्धिप्रतिषधो न भवति । किञ्च, एवं कृते संदेहः स्यात्-स्वरे निमित्त सन्धिर्वा भवतीति, ततो दण्ड अग्रमित्यनिष्टरूपं स्यादिति । तथा असन्धिरित्यस्य संनियोगशिष्टत्वे यत्र लुग्निवृत्तिस्तत्र तत्संबद्धोऽसन्धिरित्यपि निवर्तत इति ।। २२ ॥
व्योः
॥ १. ३. २३ ॥
20
अवर्णात् परयोः पदान्ते वर्तमानयो?र्वकार-यकारयोर्घोषवति परे लुग् भवति, स चासन्धिः । वृक्षं वृश्चति क्विप्, वृक्षवृश्चमाचष्टे इति णावन्त्यस्वरादिलोपे वृक्षवयतीति विचि सिद्धं वृक्ष, वृक्ष गच्छति, एवम्-माला हसति, अव्य गच्छति । घोषवतीत्येव ? वृक्षव् करोति, अव्यय करोति । अवर्णादित्येव ? तरुव् गच्छति । पदान्त इत्येव ? भव्यम्, जय्यम् । कश्चित्25 तु स्वरजयोरनादिस्थयोर्यकार-वकारयो?षवत्यवर्णादन्यतोऽपि लोपमिच्छतिअध्यारूढ उम्-ईशम् अध्युः, स चासाविन्दुश्च-अध्विन्दुः; साधोरी:-श्रीः साध्वी, तस्या उदयः-साध्युदय इत्यादि ।। २३ ।।