________________
६८ ]
:
बृहद्वृत्ति-लघुन्याससंवलिते.
[पा० ३. सू० २४-२५.]
- न्या० स०-व्योरिति । 'वृक्षव्' इत्यत्र क्विपि सत्यूट स्यादिति विचि सिद्धमित्युक्तम् । न च "स्वरस्य०" [७. ४. ११०.] इति णिलुकः स्थानित्वम्, “न सन्धि०" [ ७. ४. १११. ] इत्युपस्थानात्; तर्हि "य्वोः" [ ४. ४. १२१. ] इति कथं वस्य लुक् न? सत्यम् तदा स्थानित्वात् । अव्यवयतीति विच् क्विप् वा, विचि तावद् यस्य न लुक् "स्वरस्य०" [७. ४. ११०.] इति णिच: स्थानित्वात्, क्विपि तु यद्यपि रिणचः 5 स्थानिवत्त्वं न भवति “न सन्धि०" [ ७. ४. १११. [ इति निषेधात्, तथापि न यस्य लुक् "इसास०" [ ४. ४. ११८. ] इत्यनेन व्यञ्जनद्वारा सिद्धे "क्वौ" [४. ४. १०६.] सूत्रं क्विपि क्वचित् व्यञ्जनकार्यमनित्यम् इति ज्ञापनार्थम्, ततो यलुग् न भवतीति, यद्वा लुगिति संज्ञा संज्ञापूर्वको विधिरनित्यः इति । ननु वृक्षव् करोतीत्यत्र पदान्तत्वं नास्ति णिलोपस्य स्थानिवत्त्वात्, ततो द्वयङ्गविकलत्वं व्यावृत्तेरिति, नैवम्-"न सन्धि०"10 [७. ४. १११. ] इत्यनेन सन्धिविधौ स्थानित्वाभाव इति । कश्चित् स्विति-विश्रान्तविद्याधरः ।। २३ ॥
स्वरे वा ॥ १. ३. २४ ॥ __अवर्ण-भो-भगो-ऽघोभ्यः परयोः पदान्ते वर्तमानयोर्वकार-यकारयोः स्वरे परे लुग् वा भवति, स चासन्धिः । पट इह, पटविह, अवर्णादीत्स्पृष्टतरस्य15 विकल्पेन विधास्यमानत्वात् त्रैरूप्यम्-पटविह; वृक्ष अत्र, वृक्षवत्र, वृक्षवत्र; वृक्षा इह, वृक्षाविह, वृक्षाविह; त आहुः, तयाहुः, तयाँहुः; तस्मा इदम्, तस्मायिदम्, तस्मायिँदम्; क आस्ते, क यास्ते, कयॉस्ते; देवा आहुः, देवायाहुः, देवायाँहुः; भो अत्र, भोप्रभृतिभ्य उत्तरेणेषत्स्पृष्टतरस्य नित्यं विधानाद् द्वै रूप्यम्-भो अत्र, भोयेंत्र; भगो अत्र, भगो यँत्र; अघो अत्र, अघो यँत्र; 20 उञ्यपि द्वरूप्यमेव-पट उ, पटवू इत्यादि । पदान्त इत्येव ? लवनम्, नयनम् । अवर्णादिभ्य इत्येव ? मध्वत्र, दध्यत्र । स्वर इति किम् ? वृक्ष करोति ॥ २४ ॥
न्या० स०-स्वरे वेति । 'कयास्ते, तयाहुः' इत्यादिषु स्यादिविधौ ‘सो रुः" [ २. १. ७२. ] इति रोरसत्त्वात् असिद्धं बहिरङ्गम् ०* इति न्यायाच्च "प्रत आ:25 स्यादौ०" [ १. ४. १. ] इति न दीर्घः ॥ २४ ॥
अस्पष्टाववर्णत्वात् त्वनुशि वा ॥ १. ३. २५ ॥
अवर्ण-भो-भगो-ऽघोभ्यः परयोः पदान्ते वर्तमानयोर्वकार-यकारयोः स्थानेऽस्पष्टावीषत्स्पृष्टतरौ प्रत्यासत्तेर्वकारयकारावेवादेशौ स्वरे परे भवतः,