________________
[पा० ३. सू० २६-२७.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[६९
अवर्णात् तु परयोोरुज्वजिते स्वरे परेऽस्पष्टौ वा भवतः । पटवू, वृक्ष, असावु, कयु, देवायु, भोपॅत्र, भोयु, भगोयँत्र, भगोयु, अघोयँत्र, अघोयें; अवर्णात् त्वनुनि वा-पटविह, पटविहँ; असाविन्दुः; असाविन्दुः; तयिह, तयिह; तस्मायिदम्, तस्मायिँदम् ; कयिह, कJिह; देवायाहुः, देवायॉहुः । अनुजीति किम् ? उनि अस्पष्टावेव यथा स्याताम्, तथा चोदाहृतम् । केचित् 5 तु रुस्थानस्य यकारस्योनि परे लोपमेवेच्छन्ति-क उ आगतः, भो उ एहि, भगो उ एहि, अघो उ याहि । अपरे तु भो-भगो-ऽघोभ्यः स्वरे नित्यं लोपमेवेच्छन्ति-भो अत्र, भगो अत्र, अघो अत्र ॥ २५ ॥
न्या० स०–अस्पष्टेत्यादि-स्पशेणिजन्तात् क्त “णो दान्त०" [४. ४. ७४. ] इति निपातनात् स्पष्ट: । अपरे विति-काशिकाकारादयः ॥ २५ ॥
रोयः ॥ १. ३. २६ ॥
अवर्ण-भो-भगो-घोभ्यः परस्य पदान्ते वर्तमानस्य रोः स्थाने स्वरे परे यकार आदेशो भवति । कयास्ते देवायासते, भोयत्र, भगोयत्र, अघोयत्र । रोरिति किम् ? पुनरिह । अवर्णादिभ्य इत्येव ? मुनिरत्र । स्वर इत्येव ? कः करोति, भोः करोषि ।। २६ ।।
न्या० स०-रोर्य इति-अत्रानन्तरोऽप्यवर्णादित्येव नानुवर्तते, भोप्रभृतिभ्यो यकारस्यास्पष्टयकारविधानाद्, इति व्यवहितोऽपि अवर्णादिसमुदाय एवानुवर्तते इत्याहअवर्ण-भो इत्यादि । ननु 'तरोरयनं तर्वयनम्, चार्वयनम्' इत्यत्रैव "रोर्यः" [ १. ३. २६. ] इति प्राप्नोति, उकारसद्भावात्, नैवम्-एवं कृते भोःप्रभृतिभ्यो यकारासम्भवात् “स्वरे वा" [ १. ३. २१. ] इत्यादीनि सूत्राणि निरर्थकानि स्युः ।। २६ ॥
ह्रस्वान् ङ-ण-नो दवे ॥ १. ३. २७ ॥
ह्रस्वात् परेषां पदान्ते वर्तमानानां ' ण न' इत्येषां वर्णानां स्वरे परे द्वे रूपे भवतः । क्रुङ्ङास्ते, सुगण्णिह, पचन्नास्ते । 'कुर्वन्नास्ते, कृषन्नास्ते' इत्यत्र तु बहिरङ्गस्य द्वित्वस्यासिद्धत्वाद् णत्वं न भवति । ह्रस्वादिति - किम् ? प्राङास्ते, वाणास्ते, भवानास्ते, राजइनिह । ङ-ण-न इति किम् ? 25 त्वमत्र । स्वर इत्येव ? प्रत्यङ् शेते, गच्छन् भुङ्क्ते । पदान्त इत्येव ?
15
20