________________
बृहद वृत्ति - लघुन्याससंवलिते
[पा० ३. सू० २८.]
वृत्रहरणौ, दण्डिनी । “उणादयः " [ ५. २. ε३. ] इत्यादौ स्वरूपनिर्देशात्, “अनन्तः०” [१. ४. ५६ . ] इत्यादौ त्वन्विधानबलान्न भवति ।। २७ ।।
७०
1
न्या० स० - ह्रस्वेत्यादि । कुर्वन्नास्ते इत्यादि - नन्वत्र द्वित्वे पूर्वस्य नस्यानन्त्यत्वाद् रणत्वं प्राप्नोतीत्याह – बहिरङ्गस्येति । उभयपदापेक्षत्वेनेति - वरणतीति क्विप्, “अहन्पञ्चमस्य” [ ४. १. १०७. ] इति दीर्घत्वे वाण । राज३ निहेति परत्वात् प्रथमं प्लुतः, 5 “नामन्त्र्ये” [ २. १. १२. ] इति नलोपाभावः । प्रत्यङ् शेते इति श्रत्र मा भूदनेन द्वित्वम्, "प्रदीर्घाद् विरामैक० " [ १. ३. ३२. ] इत्यनेन भविष्यति, तत् किमर्थमेतन्निवृत्तये स्वर इत्युच्यते ? उच्यते - यद्यनेन स्यात् नित्यं स्यात् तेन तु विकल्पेनेति तदर्थं स्वर इत्युच्यते । वृत्रहणाविति अत्र संज्ञायां "पूर्वपदस्थाद्०" [ २.३. ६४. ] इति श्रसंज्ञायां तु “कवर्गैकस्वरवति” [ २. ३. ७६. ] इति णत्वम् ।। २७ ।।
अनाङ् माङो दीर्घाद् वा छः ।। १. ३. २८ ।।
10
प्राङ्-माङ्वजितपदसम्बन्धिनो दीर्घात् पदान्ते वर्तमानात् परस्य छकारस्य द्व े रूपे वा भवतः । कन्याच्छत्रम्, कन्याछत्रम् ; कुटीच्छाया, कुटीछाया; जम्बूच्छाया, जम्बूछाया; मुनेच्छाया, मुने छाया; रैच्छाया, रैछाया; गोच्छाया, गोछाया; नौच्छाया, नौछाया । अनाङ्माङ इति किम् ? 15 आच्छाया, आच्छिनत्ति, आ च्छायायाः, मा च्छिदत्, "स्वरेभ्यः " [१. ३. ३०. ] इति नित्यमेव । ङित्करणादेषु विकल्प एव - प्रा च्छायां मन्यसे, आ छायां मन्यसे; आ च्छाया मा भूत्, आा छाया मा भूत्; वाक्यस्मरणयोरयमाकारः; मा च्छिन्धि मा छिन्धि प्रमाच्छन्दः, प्रमाछन्दः; पुत्रो माच्छिनत्ति, पुत्रो मा छिनत्ति । प्राङ्साहचर्येणाव्ययस्य माङो ग्रहरणा - 20 दिहापि विकल्प एव - प्रमिमीते इति प्रमाः, विच् प्रमाच्छात्रः प्रमाछात्रः । दीर्घादिति किम् ? श्वेतच्छत्रम्, वाक्छत्रम् । पदान्त इत्येव ? ह्रीच्छति
॥ २८ ॥
न्या० स० - अनाङित्यादि । 'पदान्ते' इति दीर्घस्य विशेषणम्, न छस्यासम्भवात् पदान्ते हि तस्य विकारेण भाव्यम् -' शब्दप्राट्' इति । आङ - माङ वर्जनादेव 25 दीर्घादिति पदे लब्धे किमर्थं दीर्घादित्यूचे ? सत्यम् - प्राङ माङावव्ययौ तत्पर्युदासादन्यस्मादप्यव्ययाद् दीर्घादित्यपि प्रसङ्गः स्यादिति । मुने छायेति - 'मुनि छाया' इति स्थिते “स्वरेभ्यः” [ १. ३. ३०] इति द्वित्वं प्राप्नोति " आमन्त्र्ये" [ २. २. २२. ] इति सिश्च तत्रान्तरङ्गत्वाद् नित्यत्वान्च " आमन्त्र्ये” इति पूर्वं
[ २. २. २२. ]
4