________________
[पा० ३. सू० २६-३०.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ ७१
सिः, ततो ह्रस्वस्य गुणः" [ १. ४. ४१. ] इति सिना सह गुणे अनेन विकल्पेन छस्य द्वित्वमिति । “स्वरेभ्यः" [ १. ३. ३०.] इति नित्यं द्वित्वे प्राप्ते विकल्पार्थोऽयमारम्भ इति । आङो डित ईषदर्थादिषु चतुर्वर्थेषु वर्तमानस्य प्रति पधः, माङस्तु प्रतिधवचनस्य इति क्रमेणोदाहरति-आच्छायेति-ईषदर्थे । आच्छिनत्तीति क्रियायोगे, छदिरत्र हठाद् ग्रहणे विद्यते, स चाङा विशिष्यते । आ च्छायाया इति-अत्राङ मर्यादायाम्, छायां 5 परिहत्येत्यर्थः, अभिविधौ तु छायामभिव्याप्येत्यर्थः । वाक्य-स्मरणयोरिति-वाक्यं पूर्ववाक्यार्थविपरीतकरणरूपम् , स्मरणं विस्मृतार्थपरिज्ञानम् । प्रमाछन्द इति-प्रमीयत इति "उपसर्गादातः" [ ५. १. ११०. ] इत्यङ, प्रमा चासौ छन्दश्च प्रमाछन्दः ॥ २८ ।।
प्लु
ताद् वा ॥ १. ३. २६ ॥
पदान्ते वर्तमानाद् दीर्घस्थानात् प्लुतात् परस्य छकारस्य द्व रूपे वा10 भवतः । आगच्छ भो इन्द्रभूते३ च्छत्रमानय, आगच्छ भो इन्द्रभूते३ छत्रमानय । दीर्घादित्येव ? आगच्छ भो देवदत्त३ च्छत्रमानय ॥ २६ ॥
न्या० स०-प्लुतादित्यादि । दीर्घादित्यनुवृत्तावपि द्विमात्रिमात्रयोंविरोधात् सामानाधिकरण्यासम्भवेऽपि 'मञ्चाः क्रोशन्ति' इत्यादिवत् स्थानोपचारात् तद्व्यपदेशाद् विशेषण-विशेष्यभावः, दीर्घोऽस्यास्ति स्थानित्वेनेत्यभ्रादित्वाद् अति वा दीर्घशब्देन प्लुतो-15 ऽभिधीयते इत्यत पाह-दीर्घस्थानादिति । ननु किमर्थमिदम् ? यतो दीर्घत्वमाश्रित्य "अनाङ-माङो०" [ १. ३. २८. ] इत्यनेनैव द्वित्वं वा भविष्यति, सत्यम् इदमेव ज्ञापकम् दीर्घापदिष्टं न प्लुतस्य इति, ह्रस्वकार्य च न, यथा-आगच्छ भो देवदत्त३, प्लुतात् प्रथमं सेलुक् “अदेतः०" [ १. ४. ४४. ] इत्यनेन, अन्यथा प्रथमं न कुर्यात्, यदि पश्चादपि स्यात् ।। २६ ।।
20
स्वरेभ्यः
॥१.३.३० ॥
बहुवचनं व्याप्त्यर्थम्, तेन 'पदान्ते' इति निवृत्तम्, स्वरात् परस्य छकारस्य पदान्तेऽपदान्ते च द्वे रूपे भवतः । इच्छति, [ऋच्छति], गच्छति, ह्रीच्छति, म्लेच्छति, चाच्छायते, चोच्छुप्यते, वृक्षच्छाया। स्वरेभ्य इति किम् ? वाक्छत्रम् ।। ३० ।।
25 न्या० स०-स्वरेभ्य इति । पदान्त इति निवृत्तमिति-“गच्छति पथि दूते" । [६. ३. २०३.] इत्यत्र गच्छतीति निर्देशाच्च ॥ ३० ॥