________________
७२ ]
बृहवृत्ति-लघुन्याससंवलिते
[पा० ३. सू० ३१-३२.]
हदिर्हस्वरस्यानु नवा ॥ १. ३. ३१ ॥
स्वरेभ्यः परौ यौ रेफ-हकारौ ताभ्यां परस्याहस्वरस्य-रेफ-हकारस्वरजितस्य वर्णस्य स्थाने द्वे रूपे वा भवतः, अनु-यदन्यत् कार्य प्राप्नोति तस्मिन् कृते पश्चादित्यर्थः । अर्कः, अर्कः; मूर्खः, मूर्खः; स्वर्गः, स्वर्गः; अग्र्घः, अर्घः; अर्चा, अर्चा; ब्रह्ममः, ब्रह्मः; जिम्मः, जिह्मः; वाह्य यम्, 5 वाह्यम् ; जिह व्वा, जिह्वा । अर्हस्वरस्येति किम् ? पद्मह्रदः, अर्हः, करः । स्वरेभ्य इत्येव ? अभ्र यते, नुते । अन्विति किम् ? प्रोण्ण नाव, अत्र द्विर्वचने कृते [द्वित्वं] यथा स्यात् ।। ३१ ।।
न्या० स०-होदित्यादि । अर्च्यते इति “भीण शलि." [उणा० २१.] इति के "च-जः क-गम्" [२. १. ८६.] इति कत्वम्, अर्च्यत इति घत्रि न्यङ क्वादित्वात् कत्वे10 अनेन वा द्वित्वम्, औरणादिकेऽर्के प्रथममेव कस्य द्विरूपत्वान्नानेन द्वित्वम् । बहिर्जातम् "बहिषष्टीकरण च" [६.१.१६.] ज्यः, यदा तु बहिर्भवं तदा “गम्भीर-पञ्च०" [ ६. ३. १३५. ] इति त्र्यः [बाह्यम्] । पद्मद इति-हादते इत्यच्, पृषोदरादित्वाइ ह्रस्वः। नन्वत्र द्वित्वे कृतेऽपि "रो रे लुग्" [१. ३. ४१.] इत्यनेन रलोपे सति न किञ्चिद् विनङ क्ष्यति, सत्यम्-यद्यत्र रवर्जनं न स्यात् तदोत्तरसूत्रेऽपि वर्जनाभावेऽह15 इत्यत्रोत्तरेण द्वित्वे रो रे लुकि आर्ह इति अनिष्टं रूपं स्यादिति । ननु कर इत्यत्र द्वित्वे कृतेऽपि “लुगस्या०" [२. १. ११३.] इत्यादिनाऽस्य लुग् भविष्यति, किं स्वरवर्जनेन ? सत्य न्- 'चारु, दारु, वारि, इत्यादौ चारू दारू वारीत्याद्यनिष्टं भवेदिति स्वरवर्जनम् । प्रोण्णु नावेति-अत्रान्वित्यस्याभावे सत्यन्तरङ्गत्वाद् द्वित्वे कृते पश्चात् परोक्षानिमित्तत्वेन बहिरङ्ग द्विर्दचनं स्यात्, ततश्च प्रोणु नावेत्यनिष्टरूपापत्तिः । ननु द्वित्वं कृतमपि20 कनिमित्ताभावे०* इति निवय॑ति किमनुग्रहणेन ? सत्यम्-अनुग्रहणादेवायं न्यायोऽनित्य इति, यद्वा नायं सार्वत्रिको न्यायः कुम्भकारस्य विनाशे घटस्य दर्शनात् ॥ ३१ ॥
अदीर्घाद्विराम कव्यजने ॥ १. ३. ३२ ॥
अदीर्घात् खरात् परस्य ह-स्वरवजितस्य वर्णस्य स्थाने विरामैकव्यञ्जने-विरामेऽसंयुक्तव्यञ्जने च परेऽनु द्वे रूपे वा भवतः । त्वक्क्, त्वक्,25 त्वग्ग्, त्वग्, षट्, षट्, षड्ड, षड्, तत्त्, तत्, तद्, तद् । एकव्यञ्जनेदद्ध्यत्र, दध्यत्र, पत्थ्यदनम्, पथ्यदनम्, मद्ध्वत्र, मध्वत्र, पित्त्रर्थः, पित्रर्थः, त्वङ् मधुरा, त्वङ् मधुरा, त्वङ् करोषि, त्वङ् करोषि; सय्य॑ यतः, सम्यत; उरकः , उरकः ; उर) () (पः, उर) (पः; उरः:कः, उरःकः;