________________
2
[पा० ३. सू० ३३.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ ७३
गोइत्रात !, गोइत्रात !; नौ३त्त्रात !, नौ३त्रात ! । अन्वित्यधिकारात् कत्व - गत्वादिषु कृतेषु पश्चाद् द्वित्वम् । प्रदीर्घादिति किम् ? वाक्, भवान्, सूत्रम्, पात्रम्, नेत्रम् होत्रम् । विरामैकव्यञ्जन इति किम् ? इन्द्रः, चन्द्रः, कृत्स्नम्, मृत्स्ना, उष्ट्र, दधि, मधु । संयुक्तव्यञ्जनेऽपीच्छन्त्येके प्रत्तम्, प्रत्तम् । अर्ह - स्वरस्येत्येव ? वर्या, वह्यम्, तितउ । अत एवादेशबलात् 5 संयोगान्तलोपो न भवति, प्रथमत्वादिकं तु द्वित्वस्याबाधनाद् भवत्येव ।। ३२।।
न्या० स० – अदीर्घादित्यादि । दीर्घादिति पर्युदासाद् अनुवृत्तस्य स्वरस्य विशेषणमित्याह - अदीर्घात स्वरादिति । अथ संयोगान्तलोपो मा भूत्, 'त्वक्क्' इत्यत्र प्रथमककारस्य “संयोगस्यादी० " [२. १. ८८.] इति लुक् कस्मान्न भवति ? न च वाच्यम् - अयं द्वित्वादेशोऽनर्थक इति, अन्यत्र द्वित्वश्रुतेश्वरितार्थत्वादिति, सत्यम् - प्रर्ह - 10 स्वरस्येति र्होपादानाद् व्यक्तिः पदार्थः प्राश्रीयते, तत्र च ककारविषयस्य द्वित्वस्यानर्थक्यं मा भूदिति न भवति । ननु "लि लौ” [१.३. ६५. ] इति सूत्रे द्विवचनेनेदं ज्ञापितम् - यथा सानुनासिकस्यापि निरनुनासिक एवादेश: इति, तर कथं सानुनासिको यकारः सय्żयत इत्यत्रेति, सत्यम् - स एव सानुनासिको यकारो द्विरूपो भवति, न त्वयं भिन्न प्रदेश: क्रियत इति सानुनासिक एव भवतीति, एकयाऽपि चार्धकलया द्वावपि 15 यकारौ सानुनासिकौ ज्ञायेते, सानुनासिकयकारस्यैव द्वित्वापन्नत्वादिति एकैव कलोदाहरणे । गोइत्रात ! गाव एनं त्रायीरन्निति " तिक्कृतौ नाम्नि " [५. १. ७१.] इति क्तः । इच्छन्त्येके इति इन्द्र-गोमिचन्द्रप्रभृतयः । व्रियते इति वर्या, "वर्योपसर्य ० " [ ५.१.३५. ] इति य:, अत्र द्वित्वे कृते रलोपे च वार्येति स्यात् । डउविधानस्य पुंसि विसर्गान्तस्य चरितार्थत्वान्नपुंसके 'तितउ' इत्यत्र विरामस्थस्योकारस्य द्वित्वं स्यात् । प्रथमत्वादिक - 20 मिति - पत्थ्यदनमित्यादिषु ।। ३२ ।।
...
अञ्वर्गस्याऽन्तस्थातः ॥ १. ३. ३३ ॥
अन्तस्थातः परस्य ञकारवर्जितस्य वर्गस्य स्थानेऽनु द्व े रूपे वा भवतः । उल्क्का, उल्का; वल्म्मीकः, वल्मीकः ; वृक्षव् क्करोति, वृक्षव् करोति । वर्गस्येति किम् ? सव्यम् । अञिति किम् ? हल्- ञकारौ । अन्तस्थात इति 25
किम् ? भवान् मधुरः ।। ३३ ।।
न्या० स० – अञ्वर्गस्येत्यादि । अन्तस्थात इति प्रत्राद्यादित्वात् तस् ।। ३३ ।।