________________
[पा० ३. सू० १६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ ६५
पीच्छन्ति - षट् त्सीदन्ति भवान् त्साधुः; पक्षे षट् सीदन्ति, भवान् साधुः । स इति किम् ? षड् भवन्ति, महान् षण्ड: । अश्व इति किम् ? षट् श्च्योतन्ति, भवान् श्च्योतति । श्च्युतेः सोपदेशत्वाच्छकारस्य सकारोपदिष्टं कार्यं विज्ञायते, तेन मधु श्च्योततीति क्विप् मधुश्च्युतमाचष्ट इति णावन्त्यस्वरादिलोपे, पुनः क्विपि णिलोपे, सौ, तल्लुकि च, यलोपे, “संयोगस्यादौ 5 स्कोर्लुक् ” [२. १८८.] इति शलोपे, चस्य कत्वे 'मधुग्' इति सिद्धम्
।। १८ ।।
न्या० स० – ड्-न इत्यादि - डश्च नश्च ड्-नम्, ततोऽस्वराद् ङसिः, विग्रहस्तु उच्चारणार्थं स्वरेण क्रियते, यथा 'घृतादिकमानय' इत्युक्त द्रवद्द्रव्यत्वात् केवलस्य दुरानयनत्वाद् भाजने आनीयते । षड् त्सोदन्तीति - " पदान्ताट् टवर्गात् ०" [१. ३. ६२.]10 इति निषेधात् " तवर्गस्य ०" [१. ३. ६०.] इति न टत्वम् । 'षड्' इति प्रयोगस्थो डकार: सूत्रे अनुकृतस्तत एव "अघोषे प्रथमोऽशिट : " [१. ३. ५०.] इति टत्वं न भवतीत्याहडकारनिर्देशादिति । भवान् त्साधुरिति प्रथात्र नकारस्य "नोऽप्रशान० " [१.३.८. ] इत्यनुस्वाराऽनुनासिकपूर्वः सकारः कस्मान्न भवति ? उच्यते - 'प्रधुट्परे' इति वचनात्, अत्र हि धुट्परस्तकार इति । षट्श्च्योतन्तीति अत्र “सस्य श षी" [१. ३. ६१.] इत्यत्र 15 'अनु' इत्यधिकारे वर्तमाने श्चवर्जनाभावे दन्त्यसकारस्य त्सः स्यादिति । ननु तर्हि उपदेशावस्थायामेव तालव्य : पठनीयः, किं दन्त्यपठनेनेति, ? सत्यम् - दन्त्यं पठन्नेवं ज्ञापयति-दन्त्यापदिष्टं कार्यं तालव्यस्यापि भवति, परं दन्त्यस्थाननिष्पन्नस्य न सर्वस्य, तेन ‘भवान् शेते' इत्यादौ त्सो न भवति । ननु 'मधुग्' इत्यत्र " स्वरस्य परे० " [ ७.४. ११०. ] इति सूत्रेण णिलोपरूपस्य स्वरादेशस्य स्थानिवत्त्वात् शलोपो न20 प्राप्नोति न च वाच्यं " न सन्धि०" [ ७. ४. १११.] इत्युपतिष्ठत इति, 'अस्कलुकि ' इति वचनात् यथा सुपूर्वात् कुस्मयतेः सुकुरित्यत्र न - 'अस्कलुकि' इत्यत्र नत्र निर्देशेन नत्रा निर्दिष्टमनित्यम् इति न्यायात् स्थानित्वाभाव इति ।। १८ ।।
नः शि ञ्च् ॥ १. ३. १६ ।।
पदान्ते वर्तमानस्य नकारस्य स्थाने शि-शकारे परे 'ञ्च्' इत्ययमादेशो 25 वा भवति, अश्व:- श्च्संयोगावयवश्चेच्छकारो न भवति । भवाञ्च् छूरः, भवाञ्च् शूरः, पक्षे—भवाञ् शूरः; एवम् – कुर्वञ्च् छेते, कुर्वञ्च् शेते, कुर्वञ् शेते; प्रादेशबलात् कत्वं न भवति । शीति किम् ? भवान् करोति । व इत्येव ? भवाञ् श्च्योतति । 'राजा शेते' इत्यत्र तु परत्वान्नलोपः ।। १६ ।